________________
व्रतोद्यापन। [१२७ परिग्रहमहादोपजेतारं कामतापकं ।।
चाये धनरसैः शुद्धैः शुद्धबोधप्रकाशकं ॥५॥ ॐ हीं परिग्रहत्यागाय जलादिकं ॥ ५ ॥
दर्शनवित्तसंधार मिथ्यावित्तनिवारकं ।
परोपदेशविस्तारकरं चाये जलादिकैः ॥ ६ ॥ ॐ हीं सम्यग्दर्शनरक्षण मिथ्यात्यागाय जलादिकं ॥ ६ ॥
मोहत्यागकरं साधु समताधनविपारगं ।
शुद्धध्यानाप्तविस्तारं करं चाये जलादिकैः ॥ ७॥ ॐ ह्रीं मोहत्यागाय जलादिकं ॥ ७ ॥
क्रोधत्यागकर सिद्धं क्षमापारगतं वर ।
मानमर्दनकं सूरं चाये विश्वहितेशिनं ॥ ८॥ ॐ ह्रीं क्रोधरहित त्यागाय जलादिकं ॥ ८ ॥
मायाकुण्डलिनीत्यागकर परोपदेशक ।
मूर्छाछेदकरं नित्यं पूजयामि शिवंकरं ॥९॥ ॐ हीं मायारहितत्यागाय जलादिकं ॥ ९॥
महालोभप्रहंतारं जिनशासनरक्षकं ।
पूजयामि सुत्यागेशं स्वष्टद्रव्यसमुच्चयैः ॥ १० ॥ ॐ ही लोभरहितत्यागाय जलादिकं ॥ १० ॥
जीवनचंदन तन्दुललतातं चरुदीपधूपफल निकरैः ।
त्यागजलधि मुनिवीरं समताधीरं यजे नित्यं ॥११॥ ॐ ही उत्तमत्यागधर्माय महाघ । ..