________________
232
प्रतिष्ठा पूजाञ्जलि
(स्वागता) जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मतिः।। निष्कलंकविमलोक्तिभावनाः संभवन्तु मम जन्मजन्मनि।।3।।
(आर्या) गुरुमूले यतिनिचिते चैत्यसिद्धांतवार्धिसद्धोषे। मम भवतु जन्मजन्मनि सन्यसनसमन्वितं मरणम्।।4।।
(अनुष्टप्) जन्मजन्मकृतं पापं जन्मकोटिसमर्जितम्। जन्ममृत्युजरामूलं हन्यते जिनवन्दनात् ।।5।।
__ (शार्दूलविक्रीडित) आबाल्याज्जिनेदेवदेव भवतः श्रीपादयोः सेवया। सेवासक्तविनेयकल्पलतया कालोद्ययावद्गतः ।। त्वां तस्याः फलमर्थये तदधुना प्राणप्रयाणक्षणे। त्वन्नामप्रतिबद्धवर्णपठने कण्ठोऽष्ठकुण्ठो मम।।6।।
(आर्या) तव पादौ मम हृदये मम हृदयं तव पदद्वये लीनम्। तिष्ठतु जिनेन्द्र तावद्यावन्निर्वाणसंप्राप्तिः।।7।। एकापि समर्थेयं जिनभक्तिर्गति निवारयितम। पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः।।।। पंचसुअ दीवणाम पंचम्मिय सायरे जिणे वंदे। पच जसोयरणाम पंचम्मियं मंदरे वंदे।।9।।
रयणत्तयं च वंदे चव्वीसजिणे च सव्वदा वंदे। पंचगुरूणं वंदे चारणचरणं सदा वंदे ।।10।।