________________
कठोपनिषत् । ' एवं नानाविद्योपाधिषु प्रतिरूपत्वेन वर्तमानोऽपि न तद्गुणकर्मभिर्लिप्यत इति सदृष्टान्तमाह
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैबर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते
लोकदुःखेन बाह्यः ॥ १२॥ यथा सूर्यः सर्वलोकस्य सर्वजनस्य चक्षुरध्यात्मरूपेण रूपप्रकाशकत्वेन सर्वचक्षुष्षु वर्तमानः । तथाऽपि चाक्षुषैः स्थूलचक्षुःसंबन्धिमिर्बाह्यदोषैर्बहिर्भवैर्दोषैः कामलादिभिर्न लिप्यते । तथैकः परमात्मा सर्वभूतान्तरात्मा सन्नपि लोकदुःखेन लोकस्य दुःखेन न लिप्यते न दुःखी भवति । यतो बाह्यो बहिर्मवः ॥ १२॥
परमात्मैवांशत्वेन जीवरूपस्तस्मादस्य गुहायां निहितस्य विज्ञानेनैव तद्विज्ञानं कृतकृत्यत्वमस्तीत्याह
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मानं येऽनुपश्यन्ति धीरास्तेषार
सुख५ शाश्वतं नेतरेषाम् ॥ १३॥ य एको वशी स्वतन्त्रः सर्वभूतान्तरात्मा बाह्यश्चैकं स्वीयं रूपं स्वेच्छया बहुधा करोति कृतवान् । तमात्मानं सर्वगतं पूर्ण ये धीरा विवेकिनः शुद्धचित्ता अधिकारिणः सदाचार्यप्रसादेनानुपश्यन्त्यात्मन्यनुक्रमेण यद्यदात्मेतरत्तत्तन्निरस्य पश्यन्ति । तेषां सुखमानन्दः शाश्वतं नित्यं नेतरेषां तेभ्योऽन्येषां सुखं शाश्वतं ते यत्सुखमिति मन्यन्ते तदुःखान्त व्येवाशाश्वतम् ॥ १३॥ किंच
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां विदधाति कामान् । तमात्मानं येऽनुपश्यन्ति धीरास्वे
पाश् शान्तिः शाश्वती नेतरेषाम् ॥ १४ ॥ • यः शुद्धात्मा नित्यानां नित्यः । यन्नित्यमिति मन्यतेऽजस्वान्मायो. पाधिरीश्वरत्वं च तस्मादपि नित्यस्तल्लयोद्भवस्थित्यधिष्ठानत्वात्तेनैव