________________
३५
कठोपनिषत् । अनुपश्य यथा पूर्व प्रतिपश्य तथाऽपरे।
सस्यमिव मर्त्यः पच्यते सस्यमिवाऽऽजायते पुनः॥६॥ यथा येन प्रकारेण प्राचीना जना अवर्तन्त तदनुपश्यान्वालोच्य तथा चापर इदानींतना यथाऽवर्तन्त तदपि प्रतिपश्य प्रत्यालोच्याऽऽत्मन्यपि तथाभावो विज्ञेयः । स कथमित्यत्र सदृष्टान्तमाह-मोऽयं मनुष्यः सस्यमिव ब्रीह्यादिवत्पच्यते पक्को भवति । यथा सस्यं प्रसह्य विस्तार लब्ध्वाऽन्ते पक्कं भूत्वा प्रशुष्य विनश्यति तथाऽयमपि मातृकुक्षेर्जननं प्राप्य वर्धते तरुणत्वेन विपरिणमत उपतापेन जरसा वा परिपक्वः क्षीणो भूत्वा विनश्यति तथा सस्यमिव पुनर्जायते । यथा सस्यं स्वीयबीजावापादिपत्रपुष्पादिविस्ताररूपकर्मयोगेण बीजसंग्रहं प्राप्य तद्योगेन पुनरन्यशरीरेणोत्पद्यत एवमयमपि तदेहेनान्यदेहारम्भकक्रियमाणकर्मसंग्रहेण पुनर्जायतेऽन्यदेहेन पुनर्जननं प्राप्नोति । तस्मान्नित्यस्याऽऽत्मनः स्वकृतकमयोगेण नानाविधदेहान्तरप्राप्तिर्भवति तेन तान्यनित्यानि विनश्वराण्य. नात्मभूतान्यतस्तत्राऽऽत्मबुद्ध्या मानपूजापेक्षको न भवेत् । अतस्त्वं तद्वि. षयां शङ्कां मा कार्षीः ॥६॥ तर्हि किं मयाऽधुना कार्य तत्राऽऽह
वैश्वानरः प्रविशत्यनिथिाह्मणो गृहान् ।
तस्यैता५ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥७॥ वैश्वानरो वैश्वानर इव वैश्वानरोऽतिथिः। यथा वैश्वानरो देवबुद्ध्या पूज्यस्तेन बहुपुण्यप्रदो नित्यक्षुधः स्वप्रकाशस्तमसो विनाशकस्तथा बाह्मणोऽतिथिरपि विद्याविनयतपोयोगेन नित्यं सत्त्वप्राधान्येन प्रकाश. वास्तेन परपापविनाशक आराधनेन पुण्यप्रदो नित्यं क्षुधावान् । एवं सोऽज्ञातगोत्रनामा ब्राह्मणोऽतिथिहान् गृहाणि यजमानानां प्रविशति यः । तस्यातिथेरेतां शास्त्रदृष्टां शान्ति पाद्याान्नादिरूपां कुर्वन्ति गृहिणः । अतः स मृत्युरस्मिल्लोके वसन्नस्मदादिवत्सदाचारशीलोऽस्ति तं प्राप्य त्वं वैवस्वतोदकं वैवस्वतस्य यमस्योदकं पाद्यमध्य चान्नादि च हर गृहाण । अतिथिरूपेण तद्गृहं गच्छ । अस्मिन्नेव प्रसङ्गे मृत्यवे त्वा ददामीत्यतः परमेतावदवधिकं तैत्तिरीया नाचिकेते पठन्ति तदन्त्र व्याख्यायते प्रसङ्गपरिज्ञानाय । “ त ह स्मोत्थितं वागभिवदति गौतमकुमारमिति, स होवाच, परे हि मृत्योर्गृहान् , मृत्यवे वै त्वाऽदा