________________
ॐतत्सद्ब्रह्मणे नमः। अर्थप्रकाशसमेता कठोपनिषत् ।
कठोपनिषद्यपि ब्रह्मविद्या प्रायशः कथिताऽस्त्यतस्तस्या अर्थः प्रकाश्यते । उशन्ह वा इत्यादिः कठोक्तिः । यजुषि काठकेषु नाचिकेताग्निचयनप्रसङ्ग एव तत्प्रसङ्गानुसारेण प्रायशोऽभिहितो न त्वियं परब्रह्मविद्याऽतः पुनस्तां विचिख्यासुः कठ आह
उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । त५ ह कुमार सन्तं दक्षिणासु
नीयमानासु श्रद्धाऽऽविवेश ॥ १ ॥ २ ॥ वष्टि कामयते मुक्तिमुशन्नाम ह किल वै प्रसिद्धो वाजश्रवसो वाजेऽन्ने जातं श्रवः कीर्तिर्यस्य स वाजवास्तस्यापत्यं वाजश्रवसः सर्ववेदसं सर्ववेदः सुवर्ण तदादि पदार्थजातं यस्यां तां सर्ववेदसं दक्षिणां ददौ साङ्गं यज्ञं निर्वयं तदर्थमवञ्चकत्वेन सर्वमपि धनं गवादिपदाथांश्चविंगादिभ्यो ब्राह्मणेभ्यः समागतेभ्यो दत्तवान् । तस्य होशतो वाजश्रवसस्य नचिकेता नाम पुत्र आस बभूव । त ह कुमार सन्तं साधुतम विद्याविवेकसंपूर्ण दक्षिणासु यजमानेन प्रत्तासु गवादिरूपासु नीयमाना. स्वृत्विगादिभिः सतीषु तदृष्टवतः पितुरात्मनश्च श्रेयो हितसाधनविषया श्रद्धाऽऽविवेशोत्पन्ना ।। १ ॥ २॥ तत्र हेतुमाह
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ३॥ पीतोदकाः पीतान्युदकानि याभिस्तास्तथा जग्धतृणा जग्धानि मक्षितानि तृणानि याभिस्ता एवंभूता अपि दुग्धदोहा दुग्धा बहुवारं दोहा यासां तास्तेन बहुकृत्वः प्रसूता अत एव निरिन्द्रिया निर्गतानीन्द्रियाणि यासां ता गलितेन्द्रिया वृद्धाः स्वप्रयोजनाक्षमाः । एवंविधा या गावस्ता ददत् स यजमानस्ताल्लोकान्गच्छति के ते लोका येऽनन्दा असमृद्धा यत्र गतानां मुख्यत्वेन कामोपभोगामाव एवं नाम कुत्सितास्ते प्रसिद्धा लोकास्तान्स गच्छतीति संबन्धः । ननु गवां दानं विशिटफलदं श्रूयतेऽत्र त्वेवं किमुच्यते । सत्यं, यदानं सत्पात्रायानुकूलमुप