________________
२२
अर्थप्रकाशसमेता
कारणभूता नापरोक्षज्ञानस्य तथा चेत्तदा श्रुतस्य पुनर्दर्शनापेक्षा न स्यात् । तयोत्पन्नास्थस्यापरोक्षज्ञाने दर्शनमेव साधनमस्ति तद्विहाय कृततदवलम्बनस्य किं स्यात् । तथा वेदाचार्यवाक्यैः परोक्षत्वेन विज्ञातं तत्कल्पनारूपं न परब्रह्मात्मरूपं भवति तदपरोक्षज्ञाने वाच्यवचनवक्तृत्वपरित्यागेन तन्मूलत्वेनाऽऽत्मन्यात्मत्वेन ब्रह्मात्मानुभवोऽस्त्यत एवोच्यते ' तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुञ्चथ । नानुध्यायाद्बहुञ्छब्दान्वाचो विग्लापनं हि तत् ' इति । अत एवापरविद्यासंपन्नेनापि परविद्यार्थिना नारदेन सनत्कुमारं प्रत्युच्यते ' मन्त्रविदेवास्मि नाऽऽत्मविद्' इति । तस्माद्वाचा तस्य परोक्षज्ञानं नापरोक्षम् । किंच यद्ब्रह्म प्राणेन पञ्चवृत्त्यात्मकेन न प्राणिति यथेदं स्थूलं प्राणेन प्राणिति न तथा प्राणेन प्राणनक्रियां करोति । येनान्तर्गतेन प्राणः प्रणीयते स्वधर्मे प्रकर्षेण नीयते प्राप्यते । ननु तदेव प्रत्यगात्मरूपं सत्स्थूलेऽस्मिन्प्राणेन प्राणिति नु । न । तदौपाधिकं रूपमुपाधेर्विवर्तरूपत्वेन तदपि तथैव तेन शुद्धे न तद्भानं किंचित् । तत्सत्तयैव विवर्तस्य मानमतो येन प्राण: प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति पूर्ववत् । यश्चक्षुषा कोऽपि न पश्यत्यदृश्यत्वात् । येनान्तर्गतेन चक्षूंषि पश्यति द्रष्टृस्वरूप आत्मा चक्षुषा रूपान्तरं विजानाति तथा तद्धर्मसाक्षित्वेन चक्षूंष्यपि ममेयं दृष्टिः समीचीना रूपज्ञानविषय इति भावेन । तस्माट्टइयदर्शनसाक्षित्वेन तत्सापेक्षितद्रष्टृत्वान्तर्गतत्वेन सर्वासङ्गं चक्षुरगोचरभूतं तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते । यच्छ्रोत्रेण परोक्षज्ञानकरणशब्दज्ञानकरणेन न कोऽपि शृणोति सर्वात्मभूतत्वेनापरोक्षत्वात् । येनान्तर्गतेन प्रज्ञानाधिष्ठानरूपेणेदं श्रोत्रं श्रवणज्ञानवच्छ्रतं भवति । यथाऽमात्मा श्रोत्रेण नानाविधाञ्छब्दान्विजानाति । तथा श्रोत्रमपि तद्धर्मसाक्षित्वात् । तस्माच्छ्रव्यश्रवण तत्सापेक्ष श्रोतृत्वान्तरङ्गमात्मरूपं न श्रव्यवदितरत् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यत्परं तत्त्वं मनसा संकल्परूपेण न मनुते न विजानाति कश्चित् । यथा मनसा ज्ञानकरणद्वाभिर्वहिर्भूतं शब्दादिगुणवद्विषयजातं जानाति यथा चान्तर्गतानपि तथा न तत्तत्त्वं निर्गुणत्वादात्मरूपत्वाच्च । येनान्तर्गतेन सत्तारूपेण मनः सधर्मकं मतं विज्ञातमित्याहुस्तत्साक्षित्वात् । तदेव ब्रह्म त्वं विद्धि ने यदिदमुपासते ॥ ३ ॥
करणान्तर्गतत्वेन सुप्रकाशत्वादात्मरूपं सुविज्ञेयमेवेति मन्वीरन्नित्यत्राsse -