SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ . चन्द्रप्राप्तिसूत्रे ७१४ लब्धावप्युपादानं दातव्यताया अवधारणाथै तेन तद्विपरीतायावश्यं दातव्यैव, सर्वथा न दातव्येति नावधारणीयम् अन्यथा सर्वथा तहानाभावे शास्त्रव्यवच्छेदेन तीर्थव्यवच्छेदः प्रसज्यते ॥२॥ एतदेव व्यक्ती कुर्वन्नाह-'सद्धे' त्यादि गाथाद्वयम्-'सदाधिइउहाणुच्छाहकम्मबालवीरियपुरिसकारेहि' श्रद्धाधृत्युत्थानोत्साहकर्मबलवीर्यपुरुपकारैः तत्र श्रद्धा श्रवणं प्रतिरुचिः, धृतिः अत्र कथ्यमानं जिनवचनं सत्यमेव "तमेव सच्चं नीसंकं जं जिणेहि पवेइयं' इति बुद्धचा मनसो दाढर्यम्, उत्थान-श्रवणार्थ गुरुं प्रत्यभिमुखगमनम्, उत्साहः श्रवणविषये मनस औत्सुक्यं यदि मे पुण्यप्रकर्षात् सामग्री संपद्यते शृणोमि च ततः शोभनं भवतीति परिणामः सजायते, कर्मचन्दनबहुमानादिरूपम् बलम्-शारीरकस्तद्वचनादि विषयः प्राणः वोर्यम् अनुप्रेक्षायां सूक्ष्माति सूक्ष्मार्थोद्भावनशक्तिः, पुरुषकारः साधिताभिमतप्रयोजनं वीर्यमेव, एतैःकारणैः यः स्वयं 'सिक्खिओ वि संतो'शिक्षितोऽपि गृहीतचन्द्रप्रज्ञप्तिः सूत्रार्थतदुभयोऽपि सन् यो यदि दाक्षिण्यादिना 'अभायणे' अभाजने अयोग्ये ‘स्वान्तेवासिनि शिष्ये इति निजान्तेवासिने शिष्याय 'परिकहेज्जाहि' परिकथयेत् सूत्रतोऽर्थत उभयतो वा प्रतिपातयेत् तदा सो सः 'पवयणकुलगणसंघबाहिरो' प्रवचनकुलगणसद्धबाह्यः तत्र प्रवचन-भगवादाज्ञा, कुलम्-एकगुरुसमुदायः गणः एकसामाचारि समुदायः साधुसाध्वीश्राविकारूपश्चतुर्विधः, एभ्य सर्वेभ्य स बाह्यः बहिर्भूतो विज्ञेयः । तथा न ‘णाणविणयपरिहीणो' ज्ञानविनयपरिहीनः पुनश्च सः 'अरहंतथेरगणहरमेरं' अर्हत्स्थवीरगणधरमर्यादां किल निश्चयेन 'वोलिणो' व्यतिक्रान्तः 'होइ' भवति, अत्र किलेति पदमाप्तवादसचकस्, तेन इत्थमाप्तवचनं व्यवस्थितं यथा स किल-निश्चयेन भगवदर्हदादिव्यवस्थामतिक्रान्त इत्यर्थः, तदतिक्रमे च दीर्घ संसारिता भवतीति तृतीयचतुर्थगाथार्थः ।३।४। ततः किमित्याह-'तम्हा' इत्यादि, 'तम्हा' तस्मात् कारणात् 'धि उत्थाणुच्छाह कम्मवलवीरियसिक्खियं णाणं' धृत्युत्थानोत्साहकर्मबलवीयैः स्वयं मुमुक्षुणा सता यत् शिक्षितं ज्ञान-चन्द्रप्रज्ञाप्त्यादि समुत्थं तत् 'नियमा' नियमादात्मन्येव 'धारेयन्वं' धारयितव्यं स्वयमेव तस्य ज्ञानस्य हृदये धारणा कर्तव्या किन्तु कदाचिदपि 'अविणएसु' अविनयेषु विनयहीनेषु शिष्यादिषु ण य दायच्वं' न च दातव्यं नैव देयम्, अविनयेभ्यो दाने आत्मपरयोर्दीर्घसंसारिता प्रसक्तेः । इयंच चन्द्रप्रज्ञप्तिरर्थतो भगवता श्री वर्द्धमानस्वामिना मिथिलायां नगर्या साक्षादुक्ता, भगवाँश्चास्य वर्तमानस्य तीर्थस्याधिपतिः तदर्थप्रणेतृत्वात् वर्तमानतीर्थाधिपतिस्वाच्च शास्त्रसमाप्तो मङ्गलाथै तन्नमस्कारमाह-'वीरवरस्स' इत्यादि, 'वीरवरस्स' वीरवरस्य, वोरयतिस्मेति वोरः, वीरेषु वरः-प्रधानो वोरवरः वर्धमानस्वामी, तस्य भगवतः-अनुपमैश्वर्यादि युक्तस्य, वरग्रहणलब्धमेव वीरत्वं स्पष्टयति-कीदृशस्य वोरवरस्य ? इत्याह-'जरमरण' इत्या
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy