________________
चन्द्रप्राप्तिसूत्रे ७०८ 'भोयणं' भोजनम् 'भुत्ते समाणे' भुक्तः सन् 'तंसि तारिसगसि' तस्मिन् तादृशके वन्यमाणविशेषणविशिष्टे 'वासघरंसि' वासगृहे शयनगृहे, अस्य विशेषणान्याह 'अंतो सचितकम्मे' अन्तः सचित्रकर्मणि अन्तः अभ्यन्तरे चित्र कर्मणि-सिंहशरभमृगादि चित्राणि, तैः सहित 'वाहिरओ दूमियघट्ठमट्टे' बाह्यतो बहिर्भागे दूमिते सुधापविधवलिते घृष्टे चिक्कण पाषाणादिना धर्षिते ततो मृष्टे चिक्कणी कृते, · 'विचित्तउल्लोयचिल्लियतले' विचित्रेण नानाविधचित्रयुक्तेन उल्लोचेन चन्द्रोदयेन 'चंद्रोवा' इति प्रसिद्धेन 'चिल्लितं' इति दीप्यमानं तलं वासगृहमध्यभागे उपरितनं तलं यस्य तत्तथा तस्मिन्, तथा 'बहुसमसुविभत्तभूमिभाए' बहुसमसुविभक्तभूमिभागे तत्र बहुसमः अत्यन्तसमः निम्नोन्नत वर्जितत्वात्, सुविभक्तः सुविच्छित्तिकः रेखादि न्यासप्रकारयुक्तो भूमिभागो भूमितलभागो यत्र तस्मिन् तथा 'मणिकिरणपणासियंधयारे' मणिकिरणप्रणाशितान्धकारे मणिकिरणैः प्रणाशितः दूरीकृतः अन्धकारो यत्र तस्मिन् चाकचिक्यमानमणिकिरणप्रकाशयुक्त 'कालागुरुकुदुरुक्कतुरुक्कधूवमधमतगंधुझ्याभिरामे' कालागुरु प्रभृतिगन्धद्रव्यमम्पादितस्य धूपस्य दह्यमानस्य मधमघायमानः अतिशयेन प्रसर्यमाणः यो गन्ध., तेन उद्भूतम् सर्वतो व्यातम् अत एव अभिरामं तत्रस्थितजनमनोह्लादकं तस्मिन् एतावदेव न 'सुगंधवरगंधिए' सुगंधवरगन्धिते पुष्पनिर्यासादेः 'अत्तर' इति प्रसिद्धस्य श्रेष्ठसुगन्धेन गन्धिते-सुगन्धिते 'गंधवटिभूए' गन्धवर्तीभूते गन्धद्रव्यगुटिकासहशे, एतादृशे वासगृहे । अथ तद्गतशयनीयं वर्ण्यते 'सि' इत्यादि, तत्र पुनः 'तंसि तारिसगंसि' तस्मिन् तादृशे 'सयणिज्जसि' शयनीये, कि विशिष्टे ! इत्याह-'दुहओ' इत्यादि, 'दुहओ उन्नए' उभयतः उभयोः पार्श्वयो रुन्नते 'मझे णयगंभीरे' मध्ये मध्यभागे नते नम्म्रीभूते अतएव गम्भीरे 'सालिंगणवट्टिए' आलिंगनवा शरीरप्रमाणोपधानेन सहिते ‘पण्णत्तगंडविव्वोयणे सुरम्गे प्रज्ञाप्तगण्डविब्वोयणसुरम्ये प्रज्ञया विशिष्टकर्मविषयबुद्ध्या आप्ते-प्राप्ते-अतीव सुष्टु परिकर्मिते इत्यर्थः 'विब्बोयणे' उभयतो गण्डोपधानके ताभ्यां सुरम्ये 'गंगापुलिणवालुया उद्दालसालिसए' गङ्गापुलिनवालुका-गङ्गातटगताया वालुका तस्या उद्दालः-अबदलनं पादादिन्यासेऽधोगमनं तेन सदृशे 'मुविरइयरयत्ताणे' सुविरचितरजस्त्राणे सुविरचितं सुष्टुतया निवेशितं रजनाणं रजो निवारकवस्त्रं यत्र तस्मिन् 'ओयवियखोमियखोमदगुल्लपट्टपडिच्छायणे' ओयविय सौमदुकूलपट्टप्रतिच्छादने, तत्र ओयवियं-सुपरिकर्मितं क्षौमिक क्षौमवस्त्रं क्षौमिति 'रेशम' इति प्रसिद्धं तद्वस्त्रं दुकूलं काासिकमतसीमयं वा वस्त्रं तस्य पट्टः-युगल रूपः पट्टशाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तस्मिन् रत्तसयसंवुढे रक्तांशुकसंवृते रक्तांशुकेन रक्तवस्त्रनिर्मितमशकगृहाभिधानेन 'मच्छरधानी' इति प्रसिद्वेन संवृते सम्यक्तया समन्ततः परिवेष्टिते 'आईणगरूयवूरण वणीय तूलफासे' आजिनकरूतबूरनवनीततूलस्पर्शे, तत्र