________________
७०२
चन्द्रप्राप्तिसूत्रे आच्छादितो देशेन चानाच्छादितो भवति । 'सुक्ल पक्खे शुक्लपक्षे तमेव क्रममाश्रित्य प्रथमायां शुक्लप्रतिपल्लक्षाणां तिथौ 'उवदंसे माणे २' उपदर्शयन् उपदर्शयन् चन्द्रलेश्यां विमुञ्चन् विमुञ्चन् । तिष्ठति-वर्त्तते । 'तं जहा' पद्यथा-'पढमाए पढमं भाग' प्रथमायां शुक्लप्रतिपत्तिथौ प्रथमं पञ्चदशभागं चतुर्भागरूपं.विमुञ्चति एवं क्रमेण 'जाव' यावत् द्वितीयात आरभ्य पञ्चदश्यां तिथौ पूर्णिमायांपञ्चदशं पञ्चदशभागं राहुर्विमुञ्चति ततः पूर्णिमायाश्चरमे समये 'चंदे चिरत्ते भवइ' चन्द्रो विरक्त राहुर्लेश्याया सर्वात्मना विरक्तः अनाच्छादितो भवति सर्वात्मना प्रकटितो भवतीत्यर्थः राहुविमानेन ' सर्वथाऽनाच्छादितत्वात् । अत्राह कश्चित्-शुक्लपक्षे कृष्णपक्षे च कतिपयान् दिवसान् यावत् राहुविमानं वृत्तमुपलभ्यते यथा ग्रहणकाले पर्वराहुः, कतिपयाँश्च दिवसान् यावत् न वृतमुपलभ्यते तत्र किं कारणम् ? इति अत्रोच्यते इह येषु दिवसेपु शशी तमसाऽतिशयेनाभिभूयते तेषु दिवसेषु तद् विमानं वृत्तमाभाति, चन्द्रप्रभाया बाहुल्येन प्रसराभावात् राहुविमानस्य च यथापस्थिततयोपलम्भात् । येषु.दिवसेषु पुनश्चन्द्र आधिक्येन प्रकटो भवति तेषु दिवसेषु चन्द्रप्रभा राहुविमानेन नाभिभूयते किन्तु चन्द्रप्रभाया बाहुल्येन चन्द्रप्रभयैव राहुविमानप्रभाऽभिभूयते ततस्तदा न राहुविमानं वृत्ततयोपलभ्यते । पर्वराहुविमानं च ध्रुवराहुविमानादतीव तमो बहुलं भवति ततस्तस्य स्तोकस्यापि चन्द्रप्रभयाऽभिभवो न भवतीति तस्य स्तोकरूपस्यापि वृत्तत्वेनोपलब्धिर्भवति । तथा चाह
"घट्टच्छेओ कइवय दिवसे धुवराहुणो विमाणस्स । :
दीसइ परं न दीसइ जह गहणे पवराहुस्स ॥१॥". .. । छाया-वृत्तच्छेदः कतिपयदिवसे ध्रुवराहो विमानस्य । दृश्यते, पर न दृश्यते यथा ग्रहणे. पर्वराहोः १ ॥१॥ . : .।
. इति. शिष्यपृच्छा आचार्य उत्तरमाह- . "अच्चत्थं नहि तमसाऽभिभूयते, जे ससी.,विमुंचंतो। : . . . .:
तेणं वच्छेओ गहणे उ तमो तमो वहुलो ॥२॥ . . . . ! छाया-अत्यर्थ नहि तमसाऽभिभूयते यत् शशी विमुच्यमानः । . ।। .
तेन वृत्तच्छेदः, ग्रहणे तु तमाः (राहुः) तमो बहुलः ना२॥ - । इति ।
साम्प्रतं पर्वराहुः कियता कियता कालेन चन्द्रस्य सूर्यस्य वा उपरागै करोति ? इति प्रदर्शयति-तत्य णं जे से पचराहू इत्यादि, 'तत्थ णं' तत्र चन्द्रसूर्ययोरुपरागविषये 'जे से पच राहू' यः स पर्वराहु भवति 'से णं' स खल पर्वराहुः 'जहण्णेणं छहं मासाणं' जघन्येन पण्णां मासा-' नामुपरि चन्द्रस्य सूर्यस्य चोपरागं करोति न ततः पूर्वम् । 'उको सेणं उत्कर्षेण 'वायालीसाए मासाणं' द्विचत्वारिंशतो मासानामुपरि 'चंदस्स' चन्द्रस्योपरागं करोति तथा 'अंडयालीसाए