________________
बतिप्रकाशिका टीका०प्रा. १९ सू.४
पुष्करवद्वीपसंबन्धीवक्तव्यता ६८७ विष्कम्भः ज्योतिश्चक्रं चेत्येषां व्याख्या सुगमा अथातिदेशमाह - 'एएणं अभिलावेणं' इत्यादि, 'एएणं' एतेन पुष्करोदसमुद्रमं तेन अभिलापेन आलापकप्रकारेण 'अरुणवरे दीवे' इत्यादि. अरुणवरो द्वीपो वक्तव्यः, तदनन्तरं वरुणोदः समुद्रः ततः क्षीरवरो द्वीपः क्षीरोदः समुद्रः, इत्यादि, चतुर्दश द्वीपसमुदपर्यन्तं वाच्यम् । तत्र वरुणवरे द्वीपे च वरुणवरुणप्रभौ द्वौ देवौ तत्स्वामिनौ, तयोराद्येो वरुणदेवः पूर्वार्द्धाधिपतिः, द्वितीयो वरुणप्रभश्चापरार्द्धाघिपतिः । एवमग्रेऽपि सर्वत्र भावनीयम् । वरुणोदे समुद्रे परम सुजातमृद्वो का निष्पन्नरसादपीष्टतराऽऽस्वादयुक्तं जलं विद्यते । तत्र वारुणि- वारुणिप्रभौ देवौ ४ । क्षीरवरे द्वीपे पण्डरसुप्रदन्तौ द्वौ देवौ, क्षीरोदे समुद्रे जात्य पुण्ड्रेक्षुचारिणीनां गवां यत् क्षीरं, तदन्याभ्यो गोभ्यो दीयते, तासामपि क्षीरमन्याभ्यः, तासामप्यन्याभ्यः, एवं चतुर्थस्थान पर्यवसितस्य क्षीरस्य प्रयत्नतो मन्दाग्निना क्वथितस्य नात्येन खन्डेन मत्स्यण्डिकया सम्मिश्रस्य यादृशो रसो भवति तस्माद पीष्टतरस्वादं तत्कालविकसितश्वेत कर्णिकारपुष्पवर्णाभं च जलं वर्त्तते । विमल- विमलप्रभौच तत्र देवौ ५ । घृतवरे द्वीपे कनक - कनकप्रभौ देवौ, घृतोदे समुद्रे सद्यो विस्यन्दित गो घृतास्वादं तत्कालविकसितश्वेत कर्णिकार पुष्पवर्णाभं च नलं वर्त्तते । कान्तसुकान्त नामानौ तत्र देवौ ६ । क्षोदवरे द्वीपे क्षोदः - इक्षुः, सुप्रभमहाप्रभौ देवौ, क्षोदोदे जात्यवर पुण्ड्राणामिक्षूणामपनीतमूलोपरि त्रिभागानां विशिष्टगन्धद्रव्यपरिवासितानां यो रसः श्लक्ष्ण वस्त्रपरिपूतो यादृशास्वादयुक्तो भवेत्तस्मादपीष्टतरास्वाद बहुलं नलं वर्त्तते । पूर्ण- पूर्णप्रभौ च तत्र देवौ |७| नन्दीश्वरे द्वीपे कैलास - हस्तिवाहनौ देवौ, नन्दीश्वरे समुद्रे इक्षुरसास्वादं जलं, सुमनः सौमनसौ देवौ ८, एते अष्टावपि जम्बूद्वी पादारभ्य नन्दीश्वरद्वीपनन्दीश्वरसमुद्र पर्यन्ता द्वीपाः, समुद्राश्च एकप्रत्यवतारा एकैकरूपा यन्नामको द्वीपः तन्नामक एवं समुद्रः, एवं रूपेण एकैकरूपा इत्यर्थः अत ऊर्ध्वतु ये षड् द्वीपा ये षट् समुद्राश्च ते त्रिप्रत्यवताराः त्रयस्त्रयः संदृशनामानः, तथाहि – अरुणः, अरुणवरः अरुणावभासः, कुण्डलः कुण्डलवरः, कुण्डलावभासः, एते षड्द्दीपाः, एतन्नामान एव पट् समुद्रा इति । एवं जातानि द्वीपसमुद्राणां चतुर्दश युग्मानीति १४ । तत्र पट्सु द्वीपसमुद्रयुग्मेषु अरुणे द्वीपे अशोकवीतशोकौ देवौ, अरुणोदे समुद्रे सुभद्र- मनोभद्रौ देवौ ? अरुणवरे द्वीपे अरुणवरभद्रा - ऽरुणवरमहाभद्रौ अरुणवरे समुद्रे - अरुण वरभद्रा - रुणवरमहाभद्रौ अरुणवरावभासे द्वीपे अरुणवरावभासभद्रा - ऽरुणवरावभासमहाभदौ, अरुणवरावभासे समुद्र - अरुणवरावभासवरा - Sरुणवरावभास महावरौ १९, कुण्डले द्वीपे कुण्डल- कुण्डलभद्रौ देवौ, कुण्डलसमुद्रे चक्षुः शुभ-चक्षुः कान्तौ १२, कुण्डलवरे द्वीपे कुण्डलवरभद्र-कुण्डलवरमहाभद्रौ, कुण्डलवरे समुद्र कुण्डलवर - कुण्डलमहावरौ १३, कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्र - कुण्डलवरावभासमहाभदौ, कुण्डलवरावभासे समुदे कुण्डलवरावभासेवर - कुण्डलवरावभासमहावरौ द्वौ देवौ स्तः, तत्र एकः पूर्वार्द्धाधिपतिरपरोऽपरार्द्धाधिपतिरस्तीति
1
""
१०१