________________
चन्द्राप्तिप्रकाशिकाटीका प्रा०६९ सू. २ मनुष्यक्षेत्रस्थितचन्द्रादिदेवानां उत्पत्तिक्षेत्रम् ६३ मण्डलानां तानि तथा प्रदक्षिणावर्त्तानि मण्डलानि तेषां गत्या चारः परिभ्रमणं यत्र स तथा, तं तादृशं मेरुम् 'अणुपरियति' मेरुमनुलक्षीकृत्य पर्यटन्ति परिभ्रमन्ति । साम्प्रतं तत्रत्येन्द्रस्यव्यवने ते किं कुर्वन्तोति पृच्छति-'ता तेसिणंदेवाणं' इत्यादि, प्रश्नसूत्रं सुगमम्-तेषां देवानां यदा इन्द्रमध्यवते तदा ते तदानीं किं प्रकुर्वन्तीतिभावः। भगवानाह-'ता चत्तारि' इत्यादि, तेपामिन्द्रो यदा च्यवते तदा चत्वारः पञ्च वा सामानिकदेवा मिलित्वा तदिन्द्रस्थानमुपसंपद्यमधिकृत्य विहरन्ति तत्स्थानं परिपालयन्तीत्यर्थः, कियदवधि ? इत्याह- 'जाव अण्णे' इत्यादि, यावदन्यइन्द्रः अत्र इन्द्ररथाने इन्द्रत्वेन उपपन्नो भवति तावदिति । अथ-इन्द्रस्थानस्य विरहकालं पृच्छति-'ता इंदहाणेणं' इत्यादि, 'ता' तावत् तदिन्द्रस्थानं कियता कालेन कियत्कालपर्यन्तम् 'विरहियं विरहितम्-इन्दरहितं प्रज्ञप्तम् ? इति प्रश्नः भगवानाह-'ता जहण्णेणं एक्कं समय इत्यादि, तदिन्द्रस्थानं जघन्येन एकं समयं यावत्. उत्कर्षेण षण्मासान् यावत् इन्द्रस्थानमिन्द्रेण रहितं तिष्ठति ततो नाधिकं कालम्, षण्मासान्ते तु तत्रेन्द्रस्यावश्यमुपपातसद्भावादिति । इति मनुष्यक्षेत्रवक्तव्यता । ___अथ मनुष्यक्षेत्राद्वहिर्वतिनां चन्द्रादीनां वक्तव्यतामाह -'ता वहियाणं' इत्यादि, 'ता' तावत् 'पहियाणं माणुस्सखेत्तस्स' मनुष्यक्षेत्रस्य बहिः, इत्यादि प्रश्नसूत्रं मनुष्यक्षेत्र वदेव । उत्तरमपि तद्वदेव, नवरमत्र गतिविषये १, तापक्षेत्रसंस्थानप्रमाणविषये २, बाह्यपर्पत्संख्याविषये ३, दिव्यभोगविपये च ४, नानात्वं वर्त्तते, तथाहि-मनुष्यक्षेत्र वर्तिनश्चन्द्रादयः चारोपपन्नकाः न तु चारस्थितिकाः गतिरतिकाः गतिसमापन्नकाः प्रोक्ताः, अत्रत्या मनुष्यक्षेत्रबहिर्वतिनश्चन्द्रादयस्तु नो चारोपपन्नकाः किन्तु चारेस्थितिका:-चाररहिताः, नो गतिरतिकाः नो गतिसमापन्नकाः नो गतियुक्ता वर्तन्ते इत्येवं गतिविषयकं नानात्वम मनुष्यक्षेत्रवर्तिनां तापक्षेत्रमूर्वीकृतकदम्बकपुष्पसंस्थानसंस्थितं योजनसाहस्निकं तापक्षेत्र मुक्तम् , 'मत्र मनुष्यक्षेत्राहिः पक्वेष्टकासंस्थानसस्थितं योजनशतसाहनिकं तापक्षेत्रम् , यथा • पका इष्टका आयामतो दीर्घा विस्तरतस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्रा दहियंवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यपि आयामतोऽनेकयोजनशतसहस्रप्रमाणानि, विस्तरत एक योजनशतसहस्राणि चतुरस्राणि चेति तापक्षेत्रसंस्थानप्रमाणविषयकं नानात्वम् । अन्तर्मनुष्यक्षेत्रे चन्द्रसूर्यादयः अनेकसहस्रसंख्याभिः कुर्विकबाह्यपर्पद्भिः साढै नाट्यगीतवादित्रादिरवेण उत्कृष्टसिंहनादवोलकलकलरवेण प्रदक्षिणावर्त्तमण्डलचारं मेरुमनुलक्षीकृत्य पर्यटन्ति, अत्र मनुण्यक्षेत्र बहि'वर्तिनश्चन्द्रादयस्तु अनेकशतसहस्रप्रमिताभिवै कुविकबाह्यपर्पद्भिः साई नाट्यगीतवादिनादिरवेण दिव्यान् भोगभोगान् भुनाना विहरन्तीति पर्पद विषयकं दिव्यभोगभोगविषयनानात्वम् ॥ . ' . 'कथम्भूतास्ते मनुष्यक्षेत्रबहिर्वर्त्तिनश्चन्द्रसूर्याः ? इत्याह-'मुहलेस्सा' सुखलेश्याः एतद्विशेषण