________________
चन्द्रशप्तिप्रकाशिकाटीका प्रा०१९ सू १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७७ न दृश्यते । सूत्रे 'वावटि वावडिं' इति प्रोक्तं तेन 'द्वाषष्टि भागसत्कान् चतुरश्चतुरो भागान इत्यर्थो बोध्यः । शास्त्रभाषया सर्वत्र 'वावर्द्वि बावर्टि' इति लभ्यते, उक्तञ्च समवायाङ्गेऽपि "सुक्कपक्खस्स दिवसे दिवसे चंदो वावर्टि भागे परिवइडई" इति, व्याख्यानं तु सर्वत्र पूर्ववदेव, एतस्यैव सङ्गतत्वात्, अत्रेतादृशस्यैव भगवद्धावस्य गर्मितत्वाच्चेति ॥२६॥ तदेव सूत्रकारो व्याचष्टे - 'पण्णरसभागेण' इत्यादि, कृष्णपक्षे राहुः 'पण्णरसभागेण य' पञ्चदशभागेन राहुविमानस्य पष्टिभागात्मकत्वेन स्वस्य विमानस्य पञ्चदशेन भागेन चतुभार्गात्मकेन 'चंदं पण्णरस मेव' चान्द्र पञ्चदशं भागमेव चन्द्रसम्बन्धिनं पञ्चदशमेव भागं चतुर्भागात्मकम् 'वरई' वृणुतेआच्छादयति । एवं शुल्कपक्षे च 'पुणोवि' पुनरपि 'पण्णरसभागेण य' स्वकीयविमानस्य पञ्चदशेन भागेन वा 'पुणोवि' पुनरपि 'तं चेव' नव वर्द्धनक्रममाश्रिन्य प्रतिदिवस पञ्चदशं भाग चतुर्भागरूपं आत्मीयेन पञ्चदशेन भागेन चतुर्भागरूपेण 'वक्कमई अपक्रामति-पृथग्भवति मुञ्चतीत्यर्थः । अयं भावः कृष्णपक्षे प्रतिपदात आरभ्यात्मीयेन पञ्चदशेन भागेन चतुर्भागरूपेण प्रतिदिवसमेकैकं पञ्चदशं भागं चतुर्भागरूपमुपरितनभागादारभ्याच्छादयति । एवं शुल्कपक्षे प्रतिपदात मारभ्य तेनैव क्रमेण प्रतिदिवसं चन्द्रमण्डलस्य चतुर्भागरूपं पंचदशं भागं प्रकटीकरोति तेन जगति चन्द्रमण्डलस्य वृद्धि हानिश्च प्रतिभासते किन्तु स्वरूपतः पुनश्चन्द्रमण्डलस्य न वृद्धिर्न हानिः, तत्तु यथावस्थितमेव भवति ॥२७॥ अथास्योपसंहारमाह 'एव वड्इ चंदो' इत्यादि, 'एवम् अनेन प्रकारेण नित्यराहुविमानेन प्रतिदिवसमनावृतरूपेण प्रकारेण 'बड्ढा चंदो' शुल्कपक्षे चन्द्रो वद्धते वर्द्धमानः प्रतिभासते । एवमेव राहुविमानेन प्रतिदिवसं क्रमेणा ssवरणकरणनः कृष्णपक्षे 'परिहाणी होई चदस्स' चन्द्रस्य परिहानिर्भवतीति भासते । 'एवणुभावेण' एवम् एतेनानुभावेन कारणेन 'चंदस्स' चन्द्रस्य पक्षः 'कालो वा जुण्होवा' कालोवा ज्योत्स्नोवा भवति एकः पक्ष काल:-कृष्णो भवति एकश्च ज्योत्स्नः ज्योत्स्नावान् शुल्क इत्यर्थः भवति ॥२८॥ अत्र मनुष्यक्षेत्रे चन्द्रादयश्चारिणः सन्ति, नतु स्थिरा इत्याह 'अंतो मणुस्स खेते' इत्यादि. 'अंतो मणुस्स खेत्ते' मनुष्य क्षेत्रस्य मध्ये 'पंचविहा जोइसिया' पञ्चविधा ज्योतिप्काः के ते इत्याह 'चंदा सूरा गहगणाय' चन्द्राः सूर्या ग्रहगणाः च शब्दात् नक्षत्राणि तारकाश्च 'हवंति' भवन्ति । एते सर्वे चतुर्विधा अपि ज्योतिष्काः अत्र 'चारोवगा' चारोपकाः चारं चरन्तः 'उववन्ना' उपपन्नाः लब्धाः चारचारिणो लभ्यन्ते इति भावः ॥२९॥ मनुष्य क्षेत्रा दहियोतिषका अवस्थिता सन्तीत्याह-'तेण परं' इत्यादि, 'तेण परं' तेन परं ततः मनुष्य क्षेत्रात् परम्-अग्रे 'जे सेसा' यानि शेषाणि-बाह्य पुष्कारदीनि क्षेत्राणि सन्ति तत्र 'चंदाइच्च' गहगणतारणक्खत्ता' चन्द्रादित्यग्रहगणतारकनक्षत्राणि, इत्येते सर्वे पञ्चविधा ज्योतिका ये सन्ति तेषाम् 'नथि गई। नास्ति गतिः स्वस्मात्स्थानाच्चलनम्, तथा 'न विचारो' नापि तेषां चारः मण्डलगत्या परिभ्रमणम् । तर्हि किमित्याह-'अवट्ठिया ते' अवस्थितास्ते 'मुणेयवार