________________
चन्द्रप्राप्तिसूत्रे ६७० सूत्रोक्तवदेवेति । अथ सकलमनुष्यलोकस्थित तारागणस्यैवोपसहारमाह-‘एसो' इत्यादि, एषःअनन्तरमनुपदगाथोक्तसंख्यकः 'तारापिंडो' तारापिण्डः ताराणां सर्वाग्ररूपः 'सव्व समासेण' सर्वसंख्यया 'मणुयलोयंमि' मनुजलोके वर्तते । वहिया पुण' बेहिः पुनर्मनुष्यलोकादहिस्तात् मनुष्यलोकादर्भािगे मानुषोत्तर पर्वतादनन्तरक्षेत्रे इत्यर्थः 'ताराओ' ताराः असंखेज्जाओ' असख्येयाः 'जिणेहिं जिनैः अतीतवर्तमानकालतीर्थकरैः 'भणिया' भणिताः कथिताः द्वीप समुद्राणामसंख्यातत्वात् प्रतिद्वीपसमुद्रं यथा-योगं संख्येयानामसंख्येयानां च ताराणां सद्भावात् ॥९॥ साम्प्रतं मनुष्यलोकगतज्यौतिश्चक्रस्य संस्थानमाह-'एवइयं' इत्यादि, ‘एवइयं एतावत्क यदन्तरभणितमेतावत्संख्यकम् 'तारग्गं' तारामं तारापरिमाणं 'माणुसम्मि लोयम्मि' मनुष्ये लोके 'जोइसं' जोतिषं ज्योतिश्चक्र चन्द्रसूर्यनक्षत्रग्रहगणतारारूपात्मकं ज्योतिष्कदेवविमानरूपं तत् 'कलंवुया पुप्फसंठियं कदम्बपुष्पसस्थितं कदम्बपुष्पवत् अधः सड्कुचितमुपरि विस्तृतम्-उत्तानोकृताईकपित्थसस्थानसंस्थितमित्यर्थः 'चारं चरइ' चारं चरति परिभ्रमति तथाविधलोकस्वभावात् । गाथायां ताराग्रहणं चोपलक्षणं तेन चन्द्रसूर्यादयाऽपि यथोक्त संख्यका मनुष्यलोके तथाविधलोकस्वाभाव्याच्चारं चरन्तीति द्रष्टव्यम् ॥१० साम्प्रत मेतद्गतमेवोपसंहारमाह-'रवि ससि' इत्यादि, 'रविससिगहणक्खत्ता' रविशशिग्रहनक्षत्राणि उपलक्षणात्तारकाणि च 'एवइया' एतावत्कानि 'मणुयलोए' मनुजलोके 'आहिया' आख्यातानि कथितानि सर्वज्ञः । 'जेसि' येषां चन्द्रसूर्यादीनां मनुष्यलोकचारिणां यथोक्त संख्यकानां चन्द्रसूर्यनक्षत्रग्रहगणतारारूपाणां प्रत्येकम् 'नामगोय' नाम गोत्राणि, इहान्वर्थयुक्तं नामसिद्धान्त परिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थ' नामगोत्राणि अन्वर्थ युक्तानि नामानि, अथवा नामानि च गोत्राणि चेति नामगोत्राणि 'पागया' प्राकृताः सामान्यानतिशयिनः पुरुषाः कदाचिदपि 'न पण्णवेहिति' न प्रज्ञापयिष्यन्ति भविष्यति काले, किन्तु यदा तदापि प्रज्ञापयिप्यन्ति चेत् सर्वज्ञा एवं प्रज्ञापयिष्यन्ति नेतरे, तस्मात्कारणात् इदं चन्द्रसूर्यादिसंख्यापरिमाणं प्राकृत पुरुषाऽगम्यं सर्वज्ञोपदिष्टं वर्तते, इति सम्यक् श्रद्वेयमेवेति ॥११॥ साम्प्रतं चन्द्रसूर्यनक्षत्रग्रहाणां पिटकानि पतिश्च प्रदर्शयति यद्गतसख्या ज्ञानेन मनुष्यलोकगतचन्द्रादीनां संख्याज्ञानं भवतिषट्पष्टिः पिटकानि 'चंदाइच्चाणमणुयलोयम्मि' मनुष्यलोके चन्द्रादित्यानां सन्ति, अत्र द्विचन्द्रद्विसूर्यात्मकं पिटकं भवति, इत्थम्भूतानि च चन्द्रादित्यानां सर्वसख्यया मनुष्यलोके षट्पष्टिः पिटकानि वर्तन्ते, अतः षट् पष्टे भ्यां गुणने लभ्यते द्वात्रिंशदधिकमेकं शतम् (१३२) प्रत्येकं चन्द्रसूर्याणां सख्यानामस्मिन् मनुष्यक्षेत्रे । तदेव स्पष्टयति-'दो चंदा दो सूरा' इति एकैकस्मिन् पिटके द्वौ चन्द्रौ दो सूर्यौ भवत. ततः किमित्याह-द्वौ चन्द्रौ द्वौ सू? इत्येतावत्प्रमाणकमेकैकं पिटकं चन्द्रादित्यानामिति, एवं प्रमाणकं च पिटकं जम्बूद्वीपे एकम्, अत्र द्वयोरेव चन्द्रसर्दियोरेव च सूर्ययो सद्भावात् ।१। वे पिटके लवणसमुद्रे तत्र चतुर्णा चन्द्रसूर्याणां सद्भावात् ।२।