________________
चन्द्राप्तिप्रकाशिका टीका०प्रा.१९ सू.१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूणाणां संख्यादिकम् ६६३ जम्बूद्वीपे-एकैकस्य चन्द्रस्य अष्टाविंशतिरष्टाविंशति नक्षत्राणि परिवार इति मिलित्वा नक्षत्राणि चन्द्र सूर्याभ्यां सह योगमयुञ्जन् वा, युञ्जन्ति वा योक्ष्यन्ति वा । 'छावत्तरि गहसयं' षट् सप्ततं ग्रहशतं षट् सप्तत्यधिकमेकं शतं ग्रहाणाम्, एकैकस्य चन्द्रस्याष्टाशीतिरष्टाशीतिम्रहाः परिवार इति चन्द्रस्य परिवारमिलने पट् सप्तत्यधिकशतसंख्यका ग्रहाः 'चारं चरिंसु वा ३' चारेमचरन् वा चरन्ति वा चरिष्यन्तिवा । 'एग सयसहस्सं' इत्यादि तारा संख्या, तथाहि-एक लक्षम् त्रयस्त्रिंशच्च सहस्राणि, नव शतानि पश्चादशधिकानि (१३३९५०) 'तारा गण कोडीकोडीओ' तारागण कोटीकोट्यः 'सोभं सोभिंसु वा३' शोभाम् अशोभन्तवेति अकुर्वन् वा कुर्वन्ति वा करिष्यन्ति वा। अत्र जम्बूद्वीपे एकैकस्य चन्द्रस्य कोटी कोटीनाम् षट् षष्टि सहस्राणि, पञ्च सप्तत्यधिकानि नव शतानि (६६९७५) तारा परिवार इति द्वयोश्चन्द्रयोस्तारा परिवारः-एकं लक्षं त्रयस्त्रिंशत्सहस्राणि नव शतानि पश्चाशदधिकानि कोटी कोटीनाम् (१३३९५०), एतत्परिमितो जायते । अत्र पूर्वोक्त जम्बूद्वीपगत चन्द्रादिसंख्या प्रतिपादिके द्वे संग्रहगाये प्रदर्येते-'दो चंदा दो सरा' इत्यादि, अनयोरर्थः पूर्व मागत इति न पुनर्व्याख्यायते ॥२॥ इति । नवरं-'जंबुद्दीवे वियारीणं' इति 'वियारीणं' इत्यत्र 'णं वाक्यालङ्कारे 'वियारी' विचारि, अत्र लिङ्ग विपरिणामेन नपुंसलिङ्गं वाच्यम् , तेन द्वासप्ततिकं ग्रहशत विचारि चन्द्रसूर्यैः सह विचरणशीलं वर्तते इति व्याख्येयम् । इति जीवाभिगमोक्त पाठव्याख्या ।
इमं जम्बूद्वीपं को नाम समुद्रः परिवेष्टय स्थितः इति सूत्रकार आह-ता जंबु दीवं णं' इत्यादि, 'ता' तावत् 'जंबुद्दीवं णं दी' जम्बूद्वीपं द्वीपं 'लवणे नामं समुद्दे लवणो नाम समुद्रः 'वढे वलयागारसंठाणसंठिए' वृत्तः गोलाकारः वृत्तस्तु मध्य पूर्णोऽपि स्यात् यथा पूर्णिमायां चन्द्रमण्डलम् अतोऽत्र प्रश्नः स्यात्-किशो वृत्तः ? इत्याहवलयाकारसंस्थानसंस्थितः वलये यथा अन्तः शुषिरः वहिर्गोलाकारः, तत्सदृशाकारक यत्संस्थानं, तेन संस्थितः वलयाकारसंस्थानयुक्तः सः 'सव्वभो समंता' सर्वतः समन्तात् सर्वासु दिक्षु विदिक्षु च 'संपरिक्खित्ताणं' संपरिक्षिप्य सम्यक्तया परिवेष्टय खल 'चिट तिष्ठति-वर्तते इति एवं भगवता प्रतिपादिते श्रीगौतमो पुन लवणसमुद्रविषये पृच्छति-ता लवणेणं' समुद्दे' इत्यादि 'ता' तावत् 'भंते' हे भदन्त ! 'लवणे णं समुद्दे लवणः खलु समुद्रः 'किं समचकवालसंठाणसंठिए' कि समचक्रवालसंस्थानसंस्थितः समत्वेन चक्रवालसंस्थानयुक्तः, अथवा किम् 'विसमचक्वालसंठाणसंठिए' विषमचक्रवालसंस्थानसंस्थितः विषमत्वेन न्यूनाधिकत्वेन चक्रवालसंस्थानयुक्तो वर्त्तते ! एवं गौतमेन पृष्टे भगवानाह-'ता लवणसमुद्दे' इत्यादि, 'ता' तावत् 'लवणसमुद्दे' लवण समुद्रः 'समचक्कवालसंठाणसंठिए' समचक्र; वालसंस्थानसंस्थितः किन्तु 'नो विसमचक्कवालसंठाणसंठिए' नो विषमचक्रवालसंस्थानसं