________________
'चन्द्राप्तिप्रकाशिकाटीका. प्रा १५ स. १ ज्योतिष्काणां शीघ्रगतिनिरूपणम् ६०२ मध्यो राशिः (१०९८००) गुण्यते जाताश्चतस्रः कोट्यः, द्वे लक्षे, षण्णवतिः सहस्राणि, षट्
शतानि (४०२९६६००), एपामाघेन राशिना षष्टयुत्तर नवशताधिकैकविंशति सहस्ररूपेण, । (२१९६०) भागो हियते, लब्धानि यथोक्तानि अष्टादश शतानि पञ्च त्रिंशदधिकानि (१८३५) • एतावतो भागानक्षत्रं प्रतिमुहूर्त गच्छतीति ' सिद्धम् । तदेवमागतम्-चन्द्रो यत्र तत्र वा मंडले 'एकैकेन मुहूर्तन मण्डलपरिक्षेपस्य अष्टषष्टयधिकानि सप्तदशशतानि (१७६८) भागानां
गच्छति, सूर्य त्रिंशदधिकानि अष्टादशशतानि (१८३०) भागानां गच्छति, नक्षत्रं च पञ्चत्रिंशदधिकानि अष्टादशशतानि (१८३५) भागानां गच्छति ततएव सूत्रे प्रोक्तम्-चन्द्रेभ्यः सूर्याः
शीघ्रगतयः, सूर्येभ्यो नक्षत्राणि शीघ्रगतीनि । ग्रहास्तु वक्रत्वातिचारत्वमार्गित्वकारणैरनियत 'गति प्रस्थानस्ततो न तेषामुक्तप्रकारेण गतिप्रमाणप्ररूपणा कृता । ग्रहा यदि मार्गिणो
भूत्वा गच्छन्ति तदा साधारणगत्या सूर्येभ्यः शीघ्रगतय एव भवन्ति सूत्रवाक्यप्रामाण्यात् । नक्षत्रेभ्यस्ताराः शीघ्रगतय इत्यपि सूत्रप्रामाण्याद् बोध्यम् । उक्तञ्च चन्द्रसूर्यनक्षत्रगतिविषये
"चंदेहि सिग्धयरा सूरा सुरेहिं होति नक्खत्ता । अणियय गइय पत्थाणा हवंतिा सेसा गहा सव्वे ॥१॥ अट्ठारस, पणतीसे भागसए गच्छइ मुहुत्तेण । नक्खत्तं चंदो पुण, सत्तरस सए उ अडसट्टे ॥२॥ अट्ठारस भागसए, तीसे गच्छइ रची मुहुत्तेणं ।
नक्खत्त सीम छेदो, सो चेव इहंपि नायव्चो ॥३॥ छाया-चन्द्रेभ्यः शीघ्रतरा सूर्याः सूर्येभ्यो भवन्ति नक्षत्राणि । अनियतगतिप्रस्थानाः भवन्ति शेषा ग्रहाः सर्वे ॥१॥ अष्टादश पञ्चत्रिंशानि भागशतानि गच्छति मुहर्तेन । नक्षत्रं चन्द्रः पुनः सप्तदशशतानि तु अष्टषष्टानि ॥२।। अष्टादशभागशतानि त्रिंशानि गच्छति रविर्मुहर्तेन । नक्षत्रसीमाछेदः सएव इहापि ज्ञातव्यः ॥३॥ इति ।
अत्र पूर्व नक्षत्रप्ररूपणा -कृताऽतो नक्षत्रगतिपरिणामे यः सीमा छेदः अष्टानवति शताधिक शतसहस्ररूपः कथितः स एव इहापि चन्द्र सूर्यगति परिमाणेऽपि ज्ञातव्यः, पूर्वोक्तच्छेदराशिना चन्द्र सूर्यगति भागा अपि प्रविभक्ता इति भावार्थः । सू० ॥१॥