SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिका टोका प्रा०१-२ सू० ५ दाक्षिणात्याऽर्द्धमण्डलसंस्थितिस्वरूपम् ३७ दपरं 'संवच्छ' संवत्सरं 'अयमाणे' मयन् प्राप्नुवन् 'पढमंसि अहोरतसि' प्रथमेऽहोरात्रे नूतनसंवःसरस्य आदिमेऽहोरात्रे 'दाहिणाए' दाक्षिणात्यात् दक्षिणदिग्भवात् 'अंतराए' अन्तरात् अपान्तरालभागात् सर्वाभ्यन्तरमण्डलगताष्टचत्वारिंशयोजनकषष्टिभागाधिकयोजनद्वयप्रमाणरूपात् विनिर्गत्य 'तस्स' तस्य सर्वाभ्यन्तरमण्डलानन्तरं यद् उत्तरार्धमण्डलं तस्य 'आइपएसाए' आदिप्रदेशात् आदिप्रदेशमाश्रित्येत्यर्थः 'अम्भितराणंतर आभ्यन्तरानन्तरां सर्वाभ्यन्तरमण्डलाग्रेऽनुपदं वर्तमानां 'उत्तरं' मौत्तरां उत्तरदिग्भवां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'उपसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति विचरति परिभ्रमतीत्यर्थः । स चात्रापि पूर्ववदादिप्रदेशादूर्घ शनैः शनैरप्रेतनापरमण्डलाभिमुखं यथाकथञ्चनापि चरति येन तस्याहोरात्रस्यान्तिमे भागे तदपि मण्डलमष्ट चत्वारिंशदेकपष्टिभागरूपम् अन्यच्च योजनद्वयं परित्यज्य दक्षिणदिग्भवस्य तृतीयमण्डलस्य सीमायां वर्तते । 'जया णं' यदा खलु 'सूरिए' सूर्यः 'अभितराणंतरं' आभ्यन्तरानन्तरां द्वितीयां 'उत्तरं' औत्तरां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'उबसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं तदा खलु 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहुत्तों दिवसो भवति किन्तु 'दोहिं एगट्ठिभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहुर्ताभ्यां 'ऊणे' ऊनः हीनो भवति तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहर्ता रात्रिर्भवति किन्तु 'दोहिं एगहिभागमुहुत्तेहिं' द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यां 'अहिया' अधिका भवति । 'से' अथ-अनन्तरं द्वितीयस्यामुत्तरार्धमण्डलसंस्थितौ परिभ्रमणानन्तरं 'निक्खममाणे' निष्क्रामन् तत्स्थानात् पूर्वोक्तप्रकारेण निस्सरन् 'सरिए' सूर्यः तस्यैवाभिनवसंवत्सरस्य 'दोच्चंसि अहोरत्तसि द्वितीयेऽहोरात्रे 'उत्तराए' अंतरात् उत्तरदिग्भवात् 'अंतराए' अन्तरात् द्वितीयोत्तरार्धमण्डलगतात् पूर्वप्रदर्शितप्रमाणोपेतापान्तरालरूपात् विनिर्गत्य 'तस्स' तस्य दक्षिणदिग्भावितृतीयाघमण्डलस्य 'आइपएसाए' आदिप्रदेशात् आदिप्रदेशमाश्रित्येत्यर्थः 'अम्भितरं तच्चं' आभ्यन्तरी तृतीयां सर्वाभ्यन्तरमण्डलापेक्षया तृतीयां 'दाहिणं' दाक्षिणात्यां 'अद्धमंडलसंठिइ' अर्घमण्डलसंस्थिति 'उवसंकमित्ता चारं चरइ' उपसक्रम्य चारं चरति । अत्रापि पूर्ववदेव तस्याहोरात्रस्य पर्यन्ते पूर्वोक्तविधिनैव चतुर्थोत्तरार्धमण्डस्य सीमायां समागत्य सूर्योऽवतिष्ठते । 'ता' तावत् 'जया णं यदा खल 'सरिए' सूर्यः अम्भितरं' मान्यन्तरां तच्चं' तृतीयां 'दाहिणं' दाक्षिणात्यां 'अदमंडलसंठिई अर्धमण्डलसंस्थितिं 'उपसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति तथा गं' तदा खलु 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्ठादशमुहूर्तों दिवसो भवति किन्तु 'चउहिं एगट्रिभागमहुत्तेहि'चतुर्भिरेकपष्टिभागमुहूत्तैः 'ऊणे' उनो हीनो भवति तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति किन्तु 'चउहि एगट्ठिभागमुहुत्तेर्हि' चतुभिरेकपष्टिभागमुहूर्तेः 'अहिया' अधिका भवति एवं' एवमेव 'खलु' निश्चयेन 'एएणं' एतेन पूर्वप्रदर्शिताधमण्डलसस्थितित्रय
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy