________________
चन्द्रशतिप्रकाशिका टीका प्रा. १२ सू. ५
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४७ कानि चत्वारिशतानि (४०२), ततो ये प्राक्तनाः पष्टिः सप्तपष्टि भागास्तेऽत्र प्रक्षिप्यन्ते, जातानि द्वापष्टयधिकानि चत्वारिशतानि ( ४६२ ) ततो येऽभिजितः सम्बन्धिनः षट् षष्टिश्चूर्णिका भागा शोध्याः सन्ति तेऽपि पूर्वोक्तन्यायेन सप्तभिर्गुणयित्वा शोध्या भवन्तीति सप्तभिर्गुण्यन्ते, जातानि द्वापष्टयधिकानि चत्वारिंशतानि (४६२) एतानि अनन्तरोदितराशेर्द्वापष्टयधिक चतुःशत (४६२ ) रूपात् शोध्यन्ते, द्वयोः राश्योः समानत्वान्न किञ्चिदवशिष्यते, स्थितं पश्चात् शून्यम्, तत आगतम् —— उत्तरापाढानक्षत्रे परिपूर्णे चन्द्रेण भुक्ते सति तदनन्तरं युगेऽभिजितो नक्षत्रस्य प्रथम समये प्रथमा आवृत्तिः प्रवर्त्तते, अत एवोक्तं सूत्रकारेण 'अभिस्स ढमसमएणं' इति ।
C
अथ चन्द्रनक्षत्रयोगसमये सूर्यनक्षत्रयोगं प्रदर्शयति- 'तं समयं च णं' इत्यादि । 'तं समयं च णं' तस्मिन् समये चन्द्रयोगसमये च खलु 'सूरिए' सूर्यः 'केण नक्खत्तेण जोएइ' केन नक्षत्रेण युनक्ति योगं करोति ? केन नक्षत्रेन सह योगयुक्तो भूत्वा युगस्य प्रथमामावृत्तिं प्रवर्तयतीति प्रश्नः । भगवानाह - 'ता पूसेणं' तावत् पुण्येण पुष्यनक्षत्रेण सह योगमुपागतः सन् सूर्य. प्रथमामावृत्ति प्रवर्तयतीति सामान्येन प्रोक्तम्, अथ विशेष माह'पूसस्स' इत्यादि, 'पूसस्स' पुष्यस्य पुष्य नक्षत्रस्य ' एगुणवीस मुहुचा' एकोनविंशति मुहूर्त्ताः 'तेत्तालीस च वावट्ठीभागा' त्रिचत्वारिंशच्च द्वापष्टिभागा 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य, तथा ' बावट्टिभागं च सत्ता छित्ता' द्वापष्टिभागं च सप्तपष्टिधा छित्वा -- विभज्य तत्सम्बन्धिनः 'तेत्तीस चुण्णिया भागा' त्रयस्त्रिंशत् चूर्णिकाभागाः सप्तषष्टिभागा इत्यर्थः ( १९ - ३) एतावन्तो भागाः पुष्यप्य 'सेसा' इति शेषा अवशिष्टास्तिच्छेयुस्तदा, तथा पुण्यस्य त्रिंशन्मुहूर्त्तात्मकत्वात् दशमुहूर्त्ताः अष्टदश द्वाषष्टिभागाः, चतुस्त्रिंशच्च सप्तषष्टिभागाः ( १०- १८/३४) अतिक्रान्ता भवेयुस्तदा सूर्यो युगे प्रथमा मावृत्ति प्रवर्त्तयतीति भावः । ६२ ६७
६२/६
एतन्मुहूर्त्तादिकं कथं ज्ञायते ! इति तद् गणितेन प्रदर्श्यते - अत्रापि त्रैराशिकं कर्त्तव्यम्, तथाहि-यदि दशभिः सूर्यायनैः सूर्यकृता पञ्च नक्षत्र पर्याया लभ्यन्ते तदा एकेनायनेन कति सूर्यकृतनक्षत्रपर्याया लभ्यन्ते ! राशित्रयस्थापना - १०|५|२| अत्रान्त्येन राशिना एकक - रूपेण मध्यराशिः पञ्चकरूपो गुण्यते जातास्त एवेति पञ्चैव तेषामाद्यराशिना दशकरूपेण भागो हियते लब्धम नक्षत्र पर्यायस्य । तत्र परिपूर्णो नक्षत्रपर्यायस्त्रिंशदधिकाष्टादश शत (१८३०) सप्तषष्टिभागरूपो भवतीति तदर्थ पञ्चदशाधिक नवशत रूपः (९१५) पूर्वोक्तानां (१८३०) सप्तषष्टिभागानामर्द्धः सप्तषष्टिभागरूपो नक्षत्रपर्यायो भवति । तत्कथमिति प्रथमं त्रिंशदधिकाष्टादशशतरूपः परिपूर्णः सप्तषष्टिभागरूपो नक्षत्रपर्यायः प्रदर्श्यते--षड् नक्षत्राणि
,