________________
चन्नप्रातिप्रकाशिका टोका प्रा. १२ सू. ५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५३७' तदेव यत् प्रथमायाम् २ । एतेषां खलु पञ्चानां संवत्सराणां तृतीयां वर्षिकी आवृत्ति चन्द्रः केन नक्षत्रेण युनक्ति तावत् विशाखाभिः विशाखानां त्रयोदशमुहूर्ताः चतुष्पञ्चाशच्च द्वापष्टिभागा मुहूर्तस्य द्वापष्टिभागं च सप्तषष्टिधा छित्वा चत्वारिंशत् चर्णिकाभागाः शेषाः तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति तावत् पुष्येण, पुष्यस्य. तदेव ३ । तावत् एतेषां खलु पञ्चानां संवत्सराणां चतुर्थी वार्षिकी आवृत्ति चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् रेवतीभिः, रेवतोनां पञ्चविंशति मुहर्ताः, द्वात्रिंशच्च द्वापष्टि भागाः मुहूर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्वा पर्विशति प्रचूर्णिकाभागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति १ तावत् पुष्येण, पुण्यस्य तदेव ४ । तावद एतेषां खलु पञ्चानां संवत्सराणां पञ्चमी वार्षिकीम् आवृत्ति चन्द्र. केन नक्षत्रेण युनक्ति ? तावत् पूर्वाफाल्गुनीभिः पूर्वाफाल्गुनीनां द्वादश मूहर्ताः, सप्तचत्वारिंशच्च द्वापष्टिभागा मुहर्सस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्वा त्रयोदशचर्णिका भागाः शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति १ ता पुष्येण पुण्यस्य तदेव सू० ५।
व्याख्या-'तत्थ खलु' इति 'तत्थ' तत्र युगे खलु 'इमाओ' इमा वक्ष्यमाणलक्षणाः 'पंचेति' पश्चसंख्यकाः 'वासिक्कीओ' वापिक्यः वर्षाकालभाविन्यः, तथा 'पंचेति पञ्चसंख्यकाः हेमंताओ' हैमन्त्यः शीतकालभाविन्यः एवं सर्वसंकलनया दश 'आउट्टीओ' आवृत्तयः पुनः पुनर्दक्षिणोत्तरगमनरूपाः दक्षिणादुत्तरे, उत्तराद्दक्षिणे गमनरूपाः सूर्यस्य 'पण्णत्ताओ' प्रज्ञप्ताः कथिता इति । अत्रेयं भावना-ताश्चावृत्तयः सूर्यस्य चन्द्रस्येति द्विविधाः भवन्ति । तत्रैकस्मिन् युगे सूर्यस्यावृत्तयो दश भवन्ति एकस्मिन् वर्षे दक्षिणोत्तरायणभेदेन द्विद्वित्वस्य भावात् । चन्द्रस्य चैकस्मिन् युगे चतुस्त्रिंशदधिकशतसंख्यका (१३४) आवृत्तयो भवन्ति । उक्तं च
सूरस्स य अयणसमा, आउट्ठीओ जुगम्मि दस होति । चंदस्स य आउट्टी, सयं च चोत्तीसयं चेव ॥१॥ छाया---सूर्यस्य च अयनसमा आवृत्तयो युगे दश भवन्ति ।
चन्द्रस्य च आवृत्तयः शतं च चतुस्त्रिशम् ॥१॥ इति ।
मथ सूर्यस्यावृत्तयो युगे दश, चन्द्रस्य च चतुस्त्रिंशदधिकं शतमिति कथं ज्ञायते ? इति गणितेन प्रदर्श्यते आवृत्तयो नाम पुनः पुनर्दक्षिणोत्तरगमनरूपा इति तु पूर्व प्रदर्शितमेव । यस्य यावन्ति अयनानि भवन्ति तस्य तावत्य आवृत्तयो भवन्ति । प्रथमं सूर्यस्य दशआवृत्तयो भवन्तीति तास्त्रैराशिकगणितेन प्रदर्श्यन्ते सूर्यमासस्य सार्वत्रिंशदहोरात्रात्मकत्वेन एकस्य संवत्सरस्य षट्पष्टयधिकानि त्रीणि, शतानि (३६६) अहोरात्राणां लभ्यन्ते, तेन एकस्मिन् युगे पञ्चसंवत्सरात्मके त्रिंशदधिकानि अष्टादश शतानि (१८३०) अहोरात्राणां भवन्ति, एकस्मिन्नयने षण्मासात्मके त्र्यशीत्यधिकं शतम् (१८३) अहोरात्राणां लभ्यते । ततस्त्रैराशिकगणितं,
६८