________________
चन्द्रप्राप्तिप्रकाटोका प्रा.१२ २.४
ऋतुवक्तव्यता प्रतिपादनम् ५३५ चतुर्थी समाप्नोति अष्टमे पर्वणि गते, चतुर्थ्यो पञ्चमी एकचत्वारिंशत्तमे पर्वणि गते समाप्नोतिपञ्चम्यां षष्टी द्वादशे पर्वणि गते, षष्ठयां सप्तमी पञ्चचत्वारिंशत्तमे पर्वणि गते, एवं सप्तम्यामष्टमी षोडशे, अष्टम्यां नवमी एकोनपश्चाशत्तमे, नवम्यां दशमी विंशतितमे, दशम्यामेकादशी त्रिपञ्चाशत्तमे, एकादश्यां द्वादशी चतुर्विंशतितमे, द्वादश्यां त्रयोदशी सप्तपञ्चाशत्तमे, त्रयोदश्यां चतुर्दशी अष्टाविंशतितमे, चतुर्दश्यां पञ्चदशी एकषष्टितमे, पञ्चदश्यां प्रतिपदा द्वात्रिंशत्तमे पर्वणि गते समामोतीति । एवमेतायुगस्य पूर्वार्द्ध विज्ञेयाः एवं युगस्य उत्तरार्द्धऽपि स्वयमहनीयाः ।
: - तदेवमवमरात्राः प्रोक्ताः साम्प्रतमतिरात्रान् प्रदर्शयति 'तत्थ खलु' इत्यादि, 'तत्थ खलु' तत्र एकैकस्मिन् संवत्सरे खलु 'इमे' इमे-वक्ष्यमाणाः 'छ अइरत्ता पण्णत्ता' षड् अतिरात्राः तिथि वृद्धिरूपाः कथिता. 'तं जहा' तद्यथा-ते यथा-'चउत्थे पव्वे' इत्यादि, 'चउत्थे पव्वे' चतुर्थे पर्वणि गते एकः प्रथमोऽहोरात्रोऽधिको भवति । इह कर्ममासापेक्षया सूर्यमासा चिन्तायामेकैकसूर्यत्तपरिसमाप्तौ एकैकोहोरात्रो लभ्यते तथाहि-त्रिंशदहोरात्रैरेकः कर्ममासो भवनि, सार्द्ध त्रिंशदहोरात्रैश्चैकः सूर्यमासो भवति, ऋतुश्च मास द्वयात्मकस्तत एकस्य सूर्यतॊः परिसमाप्तौ कर्ममासद्वयापेक्षया एकोऽधिकोऽहोरात्रो लभ्यते । सूर्यर्तुश्च आषाढादिकः, तत आषाढादारभ्य चतुर्थे पर्वणि गते एकोऽधिको ऽहोरात्रो भवतीत्यतः प्रोक्तम्-'चउत्थे पव्वे' इति द्वितोयादिकोऽतिरात्रः कियति कियति पर्वणि गते भवतीत्युच्यते-'अट्टमे पव्वे' इत्यादि, 'अट्टमे पव्वे' अष्टमे पर्वणि गते द्वितीयः, 'वारसमे पव्वे' द्वादशे पर्वणि गते तृतीयः, 'सोलसमे पव्वे' षोडशे पर्वणि गते चतुर्थः, 'वीसइमे पव्वे' विंशतितमे पर्वणि गते पञ्चमः, 'चउवीसइमे पव्वे' चतुर्विशतितमे पर्वणि गते पष्टोऽतिरात्रो भवतीति षड् अतिरात्रा भवन्तीति । एतदेव सूत्रकारो गाथया प्रदर्शयति'छच्चेव य'इत्यादि 'छच्चेवय अइरत्ता आइच्चाउ हवंति' एते षड् अतिरात्रा आदित्यात् भवन्ति, आदित्यमधिकृत्य प्रति कर्ममासद्वयेऽतिरात्रो भवति, एकस्मिन् कर्ममासे च पर्वद्वयं भवतीति प्रतिचतुर्थे पर्वणि अतिरात्रो लभ्यते ततः प्रतिवर्ष षड् अतिरात्रा भवन्तीति 'माणाहि' जानी हि । तथा एवम् 'छच्चेव ओमरचा' षडेव अवमरात्राः 'चंदा उ हवंति' चन्द्राद् भवन्ति चन्द्र'मासानधिकृत्य कर्ममासचिन्तायां प्रति संवत्सरं षड् अवमरात्रा भवन्ति, तथाहि-कर्ममास त्रिंशदहोरात्रात्मकः, चन्द्रमासस्तु द्वात्रिंशद् द्वाषष्टि भागा युक्त एकोनत्रिंशदिनात्मकः (२९।२२) स्थूलतया सार्दुकोनत्रिंशदहोरात्रात्मक इति प्रतिमासमर्दोऽहोरात्रः कर्ममासाच्चन्द्रमास न्यून आयाति ततो मासद्वये चतुः पर्वात्मके एकोऽहोरात्रोऽवमरात्रतया भवति, तेन प्रत्येकस्मिन् वर्षे पडू अवमरात्रा भवन्तीत्यत उक्तम्-'छ ओमरत्ता पण्णत्ता' इति 'माणाहि' जानीहि, इति गाथार्थः ॥१॥ सू० ॥४॥ .