SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३३७ रविशशिनक्षत्राणां सामान्यानि सर्वसाधारणानि रविशशिनक्षत्रेति त्रयाणामपि भोग्यानि सन्ति ३। चतुर्थमालापकं सूत्रकार एव विशदयति–'कयरे' इत्यादि, एतेषां पञ्चदशानां चन्द्रमण्डलानां मव्ये 'कयरे' कतमानि कानि 'चदमंडला' चन्द्रमण्डलानि 'जे णं' यानि खलु 'सया' सदा 'आइच्चेहिं आदित्याभ्यां 'विरहिया' विहितानि सूर्यद्वययोगरहितानि तिष्ठन्ति ! । इति गौतमेन पृष्ठे सात भगवान् चतुरोऽपि प्रश्नान् एकैकशः कृत्वा 'समाधत्ते-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतासा खलु 'पण्णरसण्हं' पञ्चदशानां 'चंदमंडलाणं' चन्द्रमण्डलानां, 'तत्थ' तत्र तेपा मध्ये 'जे ते चदमंडला' यानि तानि चन्द्रमण्डलानि 'जे णं' यानि खल 'सया' सदा सर्व कालं ‘णक्खत्तेहिं अविरहिया' नक्षत्रैः अविरहितानि नक्षत्रयोगयुक्तानीत्यर्थः सन्ति 'तेणं अह' तानि खलु अष्ठ, 'तं जहा' तद्यथा-तानीमानि 'पढमे चंदमंडले' प्रथमं चन्द्रमण्डलम् १, 'तइए चंदमंडले' तृतीयं चन्द्रमण्डलम् २, 'छठे चंदमंडले पष्ठं चन्द्रमण्डलम् ३, 'सत्तमे चंदमंडले' 'सप्तमं चन्द्रमण्डलम् ४, 'अट्ठमे चंदमंडले' अष्टमं चन्द्रमण्डलम् ५, 'दसमे चंदमंडले' दशमं चन्द्रमण्डलम् ६, 'एगारसे चंदमंडले' एकादशं चन्द्रमण्डलम् ७, 'पण्णरसे चंदमंडले' पञ्चदशं चन्द्रमण्डलम् ८ । एपामष्टानां चन्द्रमण्डलानां मव्ये कस्मिन् मण्डले कति २ नक्षत्राणि भवन्तीति प्रीते-एपामष्टानां चन्द्रमण्डलानां मध्ये प्रथमे चन्द्रमण्डले द्वादश नक्षत्राणि भवन्ति, तथाहि-अभिजित् १, श्रवणः२, धनिष्ठा ३, शतभिषक ४, पूर्वाभाद्रपदा ५, उत्तराभाद्रपदा ६, रेवती ७, अश्विनी ८, भरणी ९, पूर्वाफाल्गुनी १०, उत्तराफाल्गुनी ११, स्वातिः १२, ॥ उक्तञ्च "अभिई १, सवण २, धणिहा ३, सयभिसया ४, दो य होंति भदवया ६ । रेवइ ७, अस्सिणी ८, भरणी ९ दो फग्गुणी ११, साइ १२ पढमंमि ॥१॥ छाया-स्पष्टैवेति ।। तृतीये चन्द्रमण्डले पुनर्वसुर्मघा चेति द्वे नक्षत्रे २, षष्ठे एकैव कृत्तिका ३, सप्तमे रोहिणी चित्रा चेति द्वे नक्षत्रे ४, अष्टमे एका विशाखा ५, दशमे अनुराधा ६, एकादशे ज्येष्ठा ७, पञ्चदशे चाष्टौ नक्षत्राणि भवन्ति तथाहि-मृगशिरः १, आर्द्रा २, पुष्यः ३, अश्लेषा ४, हस्तः ५, मूलम् ६, पूर्वापाढा ७, उत्तराषाढा ८, चेति, ऐषु आद्यानि षड्नक्षत्राणि पञ्चदशस्य मण्डलस्य, यद्यपि बहिश्चारं चरन्ति तथापि तत्प्रत्यासन्नवर्तित्वात्तानि तत्र गणितानीति न कश्चि दोष इति, एवमेतान्यष्ट चन्द्रमण्डलानि सदैव नक्षत्रै रविरहितानि युक्तानि तिष्ठन्तीति ।। 'तत्थ' तत्र पञ्चदशसु चन्द्रमण्डलेपु मध्ये 'जे ते चंदमंडला' यानि तानि चन्द्रमण्डलानि सन्ति तेषु 'जे णं'यानि खलु 'सया'सदा सर्वकालं ‘णक्खत्तेहि विरहिया' नक्षत्रै विरहितानि नक्षत्रयोगवर्जितानि येषु कदाप्येकमपि नक्षत्रं योगं न युनक्ति तादृशानि 'ते ण' तानि खलु 'सत्त'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy