SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ A चन्द्रप्राप्तिसूत्रे 'चउत्थं मासं' चतुर्थं मासम् आपादलक्षणं 'कड़ णक्खत्ता ऐति' कति नक्षत्राणि नयन्ति स्वस्यास्तगमनेन मासपरिसमापकतया गमयन्ति ? 'ता' तावत् 'तिणि णक्खत्ता णेति' त्रीणि नक्षत्राणि नयन्ति, 'तंजहा तद्यथा-तानीमानि-'मूलो' मूलम् १ पूच्चासाढा' पूर्वापाढ़ा २ 'उत्तरासाढा' उत्तरापाढ़ा ३ । तत्र 'मूलो' मूलं नक्षत्रं 'चोदस अहोरत्ते णेई' आद्यान् चतुर्दशअहोरात्रान् 'नयति' १। 'पुन्चासाढा' पूर्वापाढा 'पण्णरसअहोरते णेई' पञ्चदशाहोरात्रान् नयति २। 'उत्तरासाढा' उत्तरापाढा 'एग अहोरत्तं' एकं त्रिंशत्तममहोरात्र 'णेई' नयति स्वयमस्तगमनेन त्रिंशत्तमाहोरात्रसमापनपूर्वकं तमापाढमासं परिसमा पयतीति भावः 'तंसि च णं मासंसि' तस्मिंश्च आपाढलक्षणे खलु मासे 'वट्टाए' वृत्तया, वर्तुलया वृत्तस्य प्रकाश्यवस्तुनः वृत्तया 'छायया' इत्यग्रेण सम्बन्धः, एवं 'समचउरंससंठियाए' समचतुरस्रसंस्थितया समचतुरस्रसंस्थानवतः प्रकाश्य वस्तुनः समचतुरम्राकारया छायया, तथा 'णग्गोहपरिमंडलाए' न्यग्रोधपरिमण्डलया न्यग्रोधो वट; तदाकारस्य प्रकाश्यवस्तुनस्तदाकारया, छायया, उपलक्षणमेतत् अनेन यत्संस्थानसंस्थितं प्रकाश्यं वस्तु भवति तस्य छायाऽपि तत्संस्थानवती भवतीति सर्वसंस्थानेषु विज्ञेयम् यत् आपाढमासे प्रायः सर्वस्यापि प्रकाश्यवस्तुनः दिवसस्य चतुर्भागेऽतिक्रान्ते चतुर्भागे शेपे वा स्वप्रमाणा छाया भवति, निश्चयनयेन तु आषाढमासस्य चरमे दिवसे, तत्रापि सूर्ये सर्वाभ्यन्तरमण्डले चारं चरति सति प्रकाश्यवस्तु संस्थानसदृशा छाया भवति. अत एवोक्तम् “वट्टस्स वट्टयाए" इत्यादि । एतदेव सूत्रकारः स्पष्टयति 'सकायमणुरंगिणीए' इति । 'सकायमणुरंगिणीए' स्वकायमनुरङ्गिण्या-स्वस्य , स्वकीयस्य छायानिवन्धनस्य प्रकाश्यवस्तुनः कायः-शरीरं स्वकायस्तम् अनु रज्यते-अनुकारं विदधातीत्येवं शीला अनुरङ्गिणी 'द्विपद्गृह' इत्यादिना धिनञ् प्रत्ययः तया स्वकायमनुरंङ्गिण्या 'छायाए' छायया 'मुरिए' सूर्यः 'अणुपरियई' अनु-प्रतिदिवसं परावर्तते । अयमागयः-आपाढस्य प्रथमादहोरात्रादारभ्य प्रतिदिवपमन्यान्यमण्डलसंक्रमणेत यया सर्वस्यापि प्रकाश्यवस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते चतुर्भागे शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवेत् तथा कथञ्चनापि सूर्यः परावते, इति । ततः 'तस्स णं मासस्स' तस्य खलु आपाढस्य मासस्य 'चरिमे दिवसे चरमे अन्तिमे त्रिंशत्तमे दिवसे 'लेहटाई' रखापर्यन्तभागवर्तिनी सीमा तत्रस्थिते रेखास्थिते 'दो पयाई' द्वे पदे पदद्वयप्रमिता 'पोरिसी भवई' पौरुषी भवतीति सूत्रार्थः । अस्य सूत्रस्य विशेषव्याख्या जम्बूद्वीपप्रज्ञप्त्यां मत्कृतायां प्रकाशिकाव्याख्यायां विलोकनीयमिति । अत्र यद् आषाढमासस्य चरमदिवसे द्विपदा पौरुपी भवतीत्युक्तं तत् पौरुपी प्रमाण व्यवहारत उक्तम्, निश्चयतः पुनः सार्धस्त्रिंशताऽहोरात्रै-(३०॥) चतुरङ्गुला वृद्धिः श्रावणमासादराम्य पोपमासपरिसमाप्तिपर्यन्तं पट्सु मासेपु दक्षिणायनगते सूर्ये भवति, एवमेव चतुरड्गुला हानिर्माघमासादारभ्यापाढमासपरिसमाप्ति पर्यन्तं षट्सु मासेपु उत्तरायणगते सूर्ये भवतीति ज्ञातव्यम् । निश्चयतः पौरुण्याश्चतुरङ्गला वृदिर्हानिश्च मौरमासमधिकृत्य भवति, सौरमासस्यैव सार्धत्रिंशदिवसप्रमाणत्वाद, अत्र यच्चान्द्रमासा कथितास्ते लोकव्यवहारमाश्रित्य कथिता इति विभावनीयम् ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy