SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २४२ चन्द्रप्राप्तिस्त्र 'पण्णत्ता' प्रजातानि १ । तथा-'अत्थि' सन्ति 'णक्खत्ता' नक्षत्राणि कानिचित् यानि 'पच्छं भागा' पश्चाद्भागानि चन्द्रयोगस्यादिमाश्रित्य दिवसस्य सायंकालादारभ्य द्वितीयदिवससायंकालपर्यन्तभोग्यानि तानि पश्चाद्भागभोग्यानि कथ्यन्ते 'समखेत्ता' समक्षेत्राणि रात्रिंन्दिवभोग्यानि 'तीसं मुहुत्ता' त्रिशन्मुहूर्तानि चन्द्रयोगस्यादिमाश्रित्य दिवसस्य पश्चाद्गागात्सायंकालादारभ्य द्वितीयदिवससायंकालपर्यन्तं त्रिशन्मुहूर्तभोग्यानि 'पण्णत्ता' प्रज्ञप्तानि २ । तथा'अस्थि' सन्ति 'णक्खत्ता' नक्षत्राणि कानिचित् यानि 'नतंभागा' नक्तं भागानि, नक्तं-रात्रौ चन्द्रयोगस्यादिमाश्रित्य भागः अवकाशो येषां तानि तथा, 'अबढखेत्ता' अपार्थक्षेत्राणि अपगतमधैं यस्य तदपार्धम्-अर्द्ध मात्रं क्षेत्रं येषां चन्द्रयोगमाश्रित्य तानि-अपार्धक्षेत्राणि रात्रिमात्रक्षेत्राणि, अतएव 'पण्णरसमुहुत्ता' पश्चदशमुहूर्त्तानि चन्द्रयोगमाश्रित्य पञ्चदशमुहूर्ता विद्यन्ते येषां तानि पञ्चदशमुहर्तानि 'पण्णत्ता' प्रज्ञतानि ३ । तथा 'अस्थि' सन्ति 'णक्खत्ता' नक्षत्राणि कानिचित् यानि 'उभयंभागा' उभयभागानि दिवसरात्रिभागानि चन्द्रयोगस्यादिमाश्रित्य भागी येषां तानि तथा एतानि कियत्प्रमितक्षेत्राणि सन्ति ? तत्राह-'दिवढखेत्ता' द्वयर्यक्षेत्राणि द्वितीयम् अधं यत्र तद् द्वयय सार्धमहोरात्रप्रमित क्षेत्रं येषां तानि-प्रथमतया प्रातःकालादारभ्य सपूर्णमेकमहोरात्रं त्रिंशन्मुहूर्तात्मकं पुनश्चा होरात्रः, द्वितीयदिवसमात्ररूपः पश्चदशमुहूर्तात्मकः न तु रात्रिभागः एतद्रूपं द्वयर्षमिति सार्धमहोरात्ररूपं क्षेत्रं येषां तानि द्वयर्धक्षेत्राणि, अतएव 'पणयालीस मुहुत्ता' पञ्चचत्वारिंशन्मुहूर्तानि 'पण्णत्ता' प्रज्ञप्तानि ४ । एवं भगवता सामान्येन प्रोक्ते विशेषजिज्ञासया भगवान् गौतमः पृच्छति 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं अट्ठावीसाए नक्खत्ताणं' एतेषां खलु अष्टाविंशतेनक्षत्राणां मध्ये 'कयरे णक्खत्ता' कताराणि कानि नक्षत्राणि 'पुन्वंभागा' पूर्वभागानि प्रातःकालव्यापीनि 'समखेत्ता' समक्षेत्राणि समस्ता. होरात्रभोग्यानि, 'तीसंमुहत्ता' त्रिंशन्मुहूर्तानि 'पण्णत्ता' प्रज्ञप्तानि १ । तथा-'कयरे णक्खत्ता' कतगणि कानि नक्षत्राणि 'पच्छंभागा' पश्चा दागानि सायंकालप्यापीनि 'समखेत्ता' सम. क्षेत्राणि 'तीसंगुहुत्ता' त्रिशन्मुहूर्त्तानि 'पण्णत्ता' प्रज्ञप्तानि १२ । तथा-'कयरे णक्खत्ता' कतराणि कानि नक्षत्राणि 'गत्तंभागा' नक्तंभागानि-रात्रिभागानि-रात्रिमात्रभोग्यानि 'अबढखेत्ता' अपार्थक्षेत्राणि-अर्धक्षेत्रभोग्यानि 'पण्णरसमुहुत्ता' पञ्चदशमुहूर्त्तानि रात्रिमात्रव्यातत्वात् पञ्च दशमुहूर्त्तमात्रयोगकारकाणि 'पण्णत्ता' प्रज्ञतानि १३ ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy