________________
चन्द्रप्रक्षप्तिसूत्रे व्याख्या- 'कइ मंडलाइ बच्चई' कति मण्डलानि व्रजति चतुरशीत्यधिकशतमण्डलेषु सूर्यो वर्षमध्ये कति मण्डलानि एकवारं, कति वा मंडलामि द्विःकृत्वो व्रजतीत्येतन्निरूपणाविषयक प्रथमं प्राभूतमस्ति । अस्मिन् अष्टावन्तरप्रभृतानि, चतुर्थान्तरप्राभृतादारभ्याष्टमान्तरप्रामृतपर्यन्तमेकोनत्रिंशत् प्रतिपत्तयश्च सन्ति १ । 'तिरिच्छा किं व गच्छइ' तिर्यक् किं वा गच्छति सूर्यस्तिर्यग दिशि कथं चलति, इति विषयकं द्वितीयं प्रामृतं वर्त्तते, अस्मिन् त्रीणि अन्तरप्राभृतानि चतुर्दश प्रतिपत्तयश्च सन्ति २ । 'ओभासइ केवइयं' अवभाषते कियस्कम् , चन्द्रः सूर्यश्च कियत्प्रमाणक क्षेत्र प्रकाशयतीतिविषयकं तृतीयं प्रामृतम्, अत्रान्यतैर्थिकप्ररूपणारूपा द्वादश प्रतिपत्तयः सन्ति ३। 'कि ते संठिती' का ते सस्थितिः, ते मते चन्द्रसूर्ययोः किदृशं संस्थानं वर्त्तते? इति विपकं चतुर्थ प्रामृतमस्ति । अत्रान्यतैर्थिकप्ररूपणारूपा पोडश पोडशचेति द्वात्रिंशत् प्रतिपत्तयः सन्ति । अत्र तापक्षेत्रस्यान्धकारक्षेत्रस्यापि च प्ररूपणा उर्वमस्तिर्यक् च कियत्तपतीत्यपि च प्ररूपणा वर्तते ४॥ गा० ५ ॥
'कहिं पडिहया लेस्सा' कुत्र प्रतिहता टेश्या, सूर्यस्य लेश्या-तेजः कुत्र प्रतिहता भवतीतिनिरूपकं पञ्चमं प्रामृतम् । अस्मिन् अन्यतैर्थिकप्ररूपणारूपा विंशतिः प्रतिपत्तयः सन्ति ५ । 'कहं ते ओयसंठिती' कथं ते ओजःसंस्थितिः, ते तव मते कथं केन प्रकारेण सर्वदा एकरूपाऽवस्थायिनी ओजसः प्रकाशस्य संस्थितिः-संस्थानम् , अथवा-अन्यथा वा संस्थितिनानाप्रकारेण वा भवतीतिप्ररूपकं षष्ठं प्रामृतम् । अस्मिन् अन्यतैर्थिकप्ररूणारूपाः पञ्चविंशतिः प्रतिपत्तयः सन्ति ६ । 'के सरियं वरयंति'के सूर्य वरयन्ति, सूर्य दूरस्थिताः के पुद्गलाः सूर्य सूर्यतेजः वरयन्ति=सूर्यलेश्यां प्राप्तुमिच्छन्ति स्पृशन्तीत्यर्थः, इतिप्रतिपादकं सप्तमं प्राभृतम् । अत्रान्यतैर्थिकप्ररूपणारूपाः विंशतिः प्रतिपत्तयः सन्ति ७ । 'कहं ते उदयसंठिती' ते तव मते कथं केन प्रकारेण सूर्यस्य-उदयस्य उपलक्षणात् अस्तस्य च सस्थितिः प्रकारः यत्र दिवसो रात्रि ; भवति तत्र कः प्रकारः १, यदा दक्षिणोत्तरयोः प्रथमसमयो भवति तदा पूर्वपश्चिमयोः तस्माद् द्वितीये समये प्रथमः समयो भवति । अत्र जम्बूद्वीपादर्धपुष्करदीपपर्यन्तस्य वर्णनमस्ति, इतिनिरूपकमष्टमं प्रामृतम् । अस्मिन् अन्यतैर्थिकप्ररूणारूपास्तिस्रः प्रतिपत्तयः सन्ति ८ ॥ गा० ६ ॥
'कहकदा पोरिसीछाया' कतिकाष्ठा पौरुषीछाया कतिकाष्ठा कियत्प्रकर्षप्रमाणा पौरपीछाया पौरुषीकालस्य किंप्रमाणा छाया भवतीति प्ररूपकं नवमं प्रामृतम् , तत्रान्यतैर्थिकप्ररूपणारूपास्तिनः प्रतिपत्तयः सन्ति । अत्र सूर्यतेजसः स्वरूपं वर्णितम् । यस्मिन्