SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिंका टीका प्रा०८ सू०३ दक्षिणार्धोत्तरार्धे वर्षाकालादिसमयनिरूपणम् २००६ नैवास्ति 'अवहिए ' अवस्थितः खलु सदा समानः 'तत्थ' तत्र पूर्वपश्चिमयोः 'काले पण्णत्ते' कालः प्रज्ञप्तः कथितः तथास्वाभाव्यात् 'समणाउसो' हे श्रमण ! आयुष्यन् ? गौतम ? ॥७॥ तदेवं जम्बूद्वीपवक्तव्यता प्रोक्ता, साम्प्रतं लवणसमुद्रादि वक्तव्यतामाह-'एवं लवणसमुद्दे' इत्यादि। 'एवं' एवम् - अनेन जम्बूद्वीपे सूर्ययोरुद्गमादि प्रदर्शितं तथैव 'लवणसमुद्दे' लवणसमुद्रे तथा 'धायईसंडे' धातकी षण्डे 'कालोए' कालोदे समुद्रे 'ता' तावत् 'अभितरपुक्खररेण वि' आभ्यन्तरपुष्करार्धेऽपि 'सूरिया' सूर्याः द्वासप्ततिसंख्यकाः 'उत्तरपाईणमुरगच्छंति' उत्तरप्राच्याम् ईशानकोणे उद्गच्छन्ति 'पाईणदाहिणं आगच्छति' प्राचीदक्षिणस्याम् अग्निकोणे मागच्छन्ति । 'एवं' एवम्-अनेन आलापकप्रकारेण 'जंबुद्दीववत्तव्यया' जम्बूद्वीपवक्तव्यता 'भाणियव्वा' भणितव्या। कियत्पर्यन्तमित्याह-'जाव' इत्यादि 'जाव उस्सप्पिणी वि' यावत्उत्सर्पिण्यपि उत्सर्पिण्यालापकपर्यन्तमिति । अत्र यो विशेषः स प्रदश्यते, लवणसमुद्रेऽयं विशेषः जम्बूद्वीपे द्वौ सूर्यो स्तः किन्तु लवणसमुद्रे चत्वारः सूर्याः सन्ति द्विगुणक्षेत्र विस्तारात् । तेषु चतुर्पु सूर्येषु द्वौ सूर्यो जम्बूद्वीपदक्षिणार्धसूर्यस्य समश्रेणिप्रतिवद्धौ स्तः, द्वौ च उत्तरार्धसूर्यस्य समणिप्रतिबद्धौ स्तः । यदा जम्बूद्वीपे एकः सूर्यो दक्षिणपूर्वस्यामुदेति तदा तस्य समश्रेणिप्रतिवधौ द्वौ सूर्ची लवणसमुद्रे दक्षिणपूर्वस्यामुदयं प्राप्नुतः । एवं जम्बूद्वीपगतो द्वितीयः सूर्यो दक्षिणपूर्वकोणस्य सम्मुखं पश्चिमोतरे उदयमेति तदा लवणसमुद्रेऽपरौ द्वौ सूर्यो जम्बूद्वीपगतसूर्यस्य समश्रेणिप्रतिबद्धौ पश्चिमोत्तरे उदयं प्राप्नुतः । एवमुदयविधिर्जम्बूद्वीपसूर्यवदेव ज्ञातव्यः विशेषः केवलमेतावानेव यदत्र द्वौ सूर्यो, लवणसमुद्रे च चत्वार इत्यतो द्वौ द्वौ एकैकस्यां दिशि वकन्यौ । एवमेव यदा लवणसमुद्रस्य दक्षिणार्धे दिवसो भवति । तदा उत्तरार्धेऽपि दिवसो भवति । एवं यदा उत्तरार्धे दिवसो भवति तदा दक्षिणार्धेऽपि दिवसो भवति । यदा लवणसमुद्रस्य दक्षिणार्धे उत्तरार्धे च दिवसो भवति तदा पूर्वपश्चिमयोः रात्रिभवति तदानीं तत्र सूर्याचारभावात् । यदा लवणसमुद्रस्य पूर्वपश्चिमयोर्दिवसो भवति तदा दक्षिणोत्तरयोः रात्रिभवति तदानीं तत्र सूर्याभावात् । दिवस रात्र्योर्यावत्कं प्रमाणं जम्बूद्वीपे कथितं तावन्मानं लवणसमुद्रेऽपि भणितव्यम् , तच्च 'नेवत्थि तत्थ ओसप्पिणी अवट्ठिएणं तत्थ काले पण्णत्ते समणाउसो' इत्येतत्पर्यन्तं सर्व जम्बूद्वीपवक्तव्यतावदेव पठितव्यमिति ॥ आलापकप्रकारः स्वयमूहनीयः । एषा लवणसमुद्रस्य वक्तव्यता कथिता । यथा लवण समुद्रस्य वक्तव्यता कथिता तथैव धातकी खण्डस्य वक्तव्यता वाच्या विशेष एतावान् यत्-अत्र क्षेत्रस्य विशालता सद्भावात् द्वादशसूर्या द्वादशैव चन्द्राः सन्ति तेषां परस्परं समत्वात् , एवमग्रेऽपि विज्ञेयम् तेषु द्वादशसु सूर्येषु षट् सूर्या
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy