SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रप्तिप्रकाशिका टीका प्रा०८ ०३ दक्षिणार्धोत्तराधे वर्षाकालादिसमय निरूपणम् २०३ अथ वर्षाकालं प्रतिपाद्य हेमन्तकालं प्रदर्शयितुमाह- 'ता जया णं हेमंताणं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दोवे' जम्बूद्वीपे द्वीपे ' दाहिणड्ढे ' दक्षिणार्घे 'हेमंताण' हेमन्तानां हेमन्तकालस्य मासचतुष्टयरूपस्य 'पढमे समए' प्रथमः समयः 'पडिवज्जइ' प्रतिपद्यते प्रविष्टो भवति --' तया णं' तदा खलु 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'हेमं - ताणं पढमे समए पडिवज्जइ' हेमन्तानां प्रथमः समयः प्रतिपद्यते, 'जया णं' यर्दा खलु जंबुद्दीवे दीवे' जम्बूद्दीपे द्वीपे 'मंदरस्स पन्चयस्स' मन्दरस्य पर्वतस्य 'पुरत्थिमेणं पच्चत्थिमेणं' पौरस्त्ये पाश्चात्ये पूर्वस्यां पश्चिमायां च दिशि 'अणंतरपुराकडे' अनन्तरपुराकृते तदनन्तरे दक्षिणोत्तरहेमन्तप्रथमसमयादनन्तरं द्वितीये पूर्वानुपूर्व्या अग्रे स्थिते 'कालसमयं सि' कालसमये कालरूपे समये 'हेमंताणां' हेमन्तानाम् ' पढमे समए' प्रथमः समयः 'पडिवज्जइ ' प्रतिपद्यते तदा दक्षिणोत्तरयोरनन्तरपश्चात्कृत्ते पश्चानुपूर्व्या पूर्वस्मिन् कालसमये हेमन्तानां प्रथमः समयः परिपूर्णो भवतीति सुगममेव । 'एयस्स वि' एतस्यापि हेमन्तकालस्यापि ' दसलावगा' दश - आपका ः 'जाव ऊऊ' यावत् ऋतुम् समयादारभ्य ऋतुपर्यन्ताः 'भाणियव्वा' भणितव्याः ||५|| अथ सूत्रकारः ग्रीष्मकालं प्रदर्शयितुमाह - 'ता जया णं गिम्हाणं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे ' दाहिणड्ढे ' दक्षिणाधें ' गिम्हाणं पढमे समए पडिवज्जइ' ग्रीष्मणां ग्रीष्मकालस्य चतुर्मासरूपस्य प्रथमः समयः प्रतिपद्यते ' तया णं' तदा खलं 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'गिम्हाणं पढमे समए पडिवज्जइ' ग्रीष्माणां ग्रीष्मकालस्य चतुर्मासरूपस्य प्रथमः समयः प्रतिपद्यते । 'ता' तावत् 'जया णं' यदा खलु 'उत्तरदाहिणड्ढे' उत्तरदक्षिणार्धे उत्तरार्धे दक्षिणार्धे च ' गिम्हाणं पढमे समए पडिवज्जइ' प्रोष्माणां प्रथमः समयः प्रतिपद्यते ‘तया णं' तदा खलु 'जबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'पुरत्थिमेणं पच्चत्थिमेणं पौरस्त्ये पाश्चात्ये च 'अणंतरपुराकडे' अनन्वरपुराकृते उत्तरदक्षिणगतग्रीष्मकालस्य द्वितीये 'कालसमयंसि' कालसमये ' गिम्हाणं पढमे समए' ग्रीष्माणां प्रथमः समयः 'पडिवज्जइ ' प्रतिपद्यते, इत्यादि 'एयस्स वि' एतस्यापि ग्रीष्मकालस्यापि 'दस आलावगा' दशालापकाः 'जाव ऊऊ' यावत् ऋतुम् समयादारभ्य ऋतुपर्यन्ताः 'भाणियव्वा' भणितव्याः पूर्वोक्तालापकवत् करणीयाः | ६ | पूर्वं वर्षाहेमन्तग्रीष्मरूप ऋतुत्रयस्य वक्तव्यतां प्रतिपाद्य साम्प्रतम् - अयनादि वक्तव्यता माह - 'ता जया णं अयणे' इत्यादि । 'ता' तावत् 'जया णं' यदा खल 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'दाहिणड्ढे' दक्षिणार्धे 'पढमे अयणे' प्रथमम् अयनम् 'पडिवज्जइ' प्रतिपद्यते ' तया णं'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy