________________
1
चन्द्रशतिप्रकाशिका टीका प्रा०६ सू० १
ओजसंस्थितिनिरूपणम् १७७
अणुपलिभोवममेव ' तावत् अनुपल्योपममेव | १७| 'ता अणुपळि ओवमसयमेव' तावत् अनु. पल्योपमशतमेव ।१८। ता अणुपलिओवमसहस्समेत्र' तावत् अनुपल्योपमसहस्रमेव । १९ । अणुपलिओ वमसय सहरसमेव ' तावत् अनुपल्योपमशतसहस्रमेव | २० | 'ता अणुसागरोचममेव' तावत् अनुसागरोपममेव | २१ | 'ता अणुसागरोवमसयमेव' तावत् अनुसागरोपमशतमेव । २२| ता अणुसागरोत्रमसहस्तमेव' तावत् अनुसागरोपमसहस्रमेव ॥ २३॥ 'ता अणुसागरोवमसय सहरसमेव ' तावत् अनुसागरोपमशतसहस्रमेव | २४| 'एगे पुण' एके पञ्चविंशतितमाः परतीर्थिकाः पुनः ' एवं ' एवम् वक्ष्यमाणप्रकारेण 'आहंस' आहुः कथयन्ति 'ता' तावत् 'अणुउस्सप्पिणिओसप्पिणिमेव' अनुत्सर्पिण्यवसर्पिणीमेव प्रत्येकोत्सर्पिण्यवसर्पिणीका - लमेव 'सूरियस्स ओया' सूर्यस्य ओज. 'अण्णा' अन्यत् अपरं पूर्वस्थितम् 'अवेइ' अपैति बिनश्यति 'एगे' एके पञ्चविंशतितमाः परमतवादिनः ' एवं ' एवं पूर्वप्रदर्शितप्रकारेण 'आहंसु' आहुः कथयन्ति । इति पञ्चविंशतिः प्रतिपत्तयः | २५ | इति,
इमाः पूर्वप्रदर्शिताः सर्वा अपि प्रतिपत्तयः मिथ्यारूपाः सन्ति मत आसां निराकरणेन भगवान्' स्वमतमुपन्यस्यति - 'वयं पुण' इत्यादि ।
'वयं पुण' वयं तु ' एवं ' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेवाह - 'ता तीसं' इत्यादि । 'ता' तावत् 'तीस तीस मुहुत्ते' त्रिशतं त्रिशतं मुहूर्त्तान् जम्बूद्वीपे प्रतिवर्ष परिपूर्णतया त्रिंशन्मुहूर्त्तपरिमितकालपर्यन्तम् 'सूरियस्स ओया' सूर्यस्य मनः - प्रकाशः 'अवट्टिया भव' अवस्थितं यथावस्थितं भवति । अयमाशय: - सूर्य संवत्सरस्य पर्यन्तभागे यदा सूर्यः सर्वाभ्यन्तरमण्डले चारं चरति तदा सूर्यस्य जम्बूद्वीपगतमोजः त्रिशतं मुहर्त्तान् यावत् परिपूर्ण - प्रमाणयुक्तं भवति । 'तेणं परं तेन परं ततोऽनन्तरं सर्वाभ्यन्तरमण्डलात्परम् 'सूरियस्स ओया' सूर्यस्य ओजः 'अणवट्टिया' अनवस्थितं नियतप्रमाणरहितं ' भवइ' भवति । कस्मात् कारणादित्याह- 'छम्मासे' इत्यादि । यतो हि सर्वाभ्यन्तरमण्डलात् अग्रे चरतः सूर्यस्य निष्क्रमणसमय गतान् प्रथमान् सूर्यसंवत्सरसम्बन्धिनः 'छम्मासे' षण्मामान् यावत् 'सूरिए' सूर्यः 'ओयं' खोमः जम्बूद्वीपगतं प्रकाशं 'णिव्बुड्ढेइ' निर्वर्धयति प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशत १८३० संख्यकभाग सम्बन्धिनो भागस्य होनकरणेन हापयति । एवं तदनन्तरं सूर्यसंवत्सरस्य द्वितीयान् प्रवेशसमयगतान् 'छम्मासे' पण्मासान् यावत् षण्मासपर्यन्तमित्यर्थः 'सूरिए' सूर्यः 'ओय' भोजः प्रकाशम् 'अभिवड्ढे ' अभिवर्धयति प्रत्यहोरात्रं त्रिंशदधिकाष्टा दशशत (१८३०) संख्यभाग सत्कैक भागवर्धनेन तत्र वृद्धिं करोति । एतदेव स्पष्टयति- 'णिक्खममाणे' इत्यादि 'णिक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरमण्डलाद्वहिर्निर्गच्छन् 'सूरिए' सूर्यः
२३