________________
१७०
पद्रप्राप्तिस्त्र तमः प्रोच्यते, पर्वतराजोऽपि स एव प्रोच्यते नान्यः कश्चिदन्यः पर्वत इति । अयमेको पर्वतो विंशतिनामभिः कथं ख्यात इति तेषामर्थाधिकारः प्रदर्श्यते तथाहि(१) मन्दरः-पल्योपमस्थितिकमन्दराभिधदेवनिवासस्थानयोगात् । . (२) मेरु:-तस्य समस्ततिर्यग्लोकमध्यभागस्य मर्यादाकारित्वात् । (३) मनोरमः-अतिसुरूपतया देवानां मनोरमणहेतुकत्वात् ।। (४) सुदर्शन:-जाम्बूनदजातीय सुवर्णमयत्वेन वज्ररत्नबहुलत्वेन च मनोमोदजनकसुष्टुद
शनवत्त्वात् । (५) स्वयंप्रभः- रत्नबहुलतया आदित्यादिनिरपेक्षस्वयंप्रभावत्वात् । (६) गिरिराजः-सर्वगिरीणामुच्चैरत्वेन तीर्थकरजन्मोत्सवाभिषेकाश्रयत्वेन च गिरीणां मध्ये
राजसादृश्यात् । (७) रनोच्चयः-नानाविधरनानामतिशयेन चयस्थानत्वात् । (८) शिलोच्चयः-पाण्डुकम्बलादिशिलानां तदुपरि चयसद्भावात् । (९) लोकमध्यः- समस्ततियंगू लोकस्य मध्यवर्तित्वात् । (१०) लोकनाभि:-~-स्थालमध्यस्थित समुन्नतवृत्तचन्द्रतुल्यत्वेन स्थालाकारतिर्यग्लोकस्य नाभि
सादृश्यात् । (११) अच्छ:-अतिनिर्मलजाम्बूनदसुवर्णवज्रादिरत्नबहुलत्वेन स्वच्छकान्तिमत्त्वात् । (१२) सूर्यावर्तः-सूर्यस्य उपलक्षणाच्चन्द्रग्रहनक्षत्रतारारूपाणां प्रदक्षिणावर्तस्थानत्वात् । (१३) सूर्यावरणः-सूर्यादिभिः परिभ्रमणशीलरावृतत्वात् । (१४) उत्तमः-गिरीणां मध्ये सर्वोत्कृष्टत्वेन उत्तमत्वात् । (१५) दिशादिः- गोस्तनाकाराष्टप्रदेशात्मकरुचकादेव दिग्विदिशामादियिते, तस्यमध्यवत्तित्वात् (१६) अवतंसकः-गिरीणां चूडामणिसादृश्यात् ।
एपा पोडशानां नामसंग्राहक गाथाद्वयं जम्बूद्वीपप्रज्ञप्तिप्रसिद्धंयथा-"मंदर-मेरु-मनोरम,-मुदसण-सयंपभेय गिरिराया ।
रयणोच्चए सिलोच्चय, मज्झे लोगस्स नाभी य ॥१॥ अच्छेय सूरियावत्ते, सूरियावरणे इय ।। उत्तमे य दिसाई य वडिंसे इय सोलसे ॥२॥
छाया पूर्वप्रदर्शितनामभिः सुगमैवेति । ' (१७) धरणिकीलः-पृथिव्याः कीलकसादृश्यात् । (१८) धरणिशृङ्गः-पृथिव्याः शृङ्गसाश्यात् ।