________________
चन्द्रप्रकाशिका टीका प्रा० २-२१ सूर्यस्य मण्डलात् मण्डलान्तरसंचरणम् १११
कृतमण्डलं 'निव्वेढेइ' निर्वेष्टयति मुश्चति, 'एवइयं च णं अद्ध" एतावतीं च खलु अद्धां यावत् एतावता कालेनेत्यर्थः 'पुरओ गच्छई' पुरतो द्वितीयमण्डलपर्यन्ते गच्छति तथा च ' पुरओ गच्छमाणे' पुरतो गच्छन् द्वितीयमण्डलपर्यन्तं प्राप्नुवन् 'मंडलकाले ' मण्डलकाल मण्डला पान्तराल समयं 'न परिहवे ' न परिभवति न हापयतीति, तथा च अधिकृतमण्डलस्य किल कर्णकलापूर्वकं निवॆष्टितत्वात् अपान्तरालकालोऽधिकृतमण्डलसम्बन्धिन्ये वाहो रात्रेऽन्तर्भूतः, एवं च द्वितीयमण्डले सूर्यस्य संक्रमणे सति तद्गतकालस्य मनागपि हानिर्नस्यात् ततो यावता कालेनापान्तरालं गम्यते तावत्प्रमाणेन कालेन सूर्यः पुरतो गच्छति एवं च मण्डलकालं न हापयति - प्रसिद्धेन यावत्परिमितेन कालेन तन्मण्डलं परिसमाप्यं भवेत् तावत्परिमितेन कालेन तन्मण्डलं पूर्णतया समापयति न तु किश्चिन्मात्रापि मण्डलकालहानिर्भवति ततो जगद्विदितप्रतिनियताहोरात्रपरिमाणे न कोऽपि व्याघातः प्रसज्येत । 'तेसि णं' तेषां खलु द्वितीयानाम् 'अयं ' स्मयं पूर्वप्रदर्शितः ‘विसेसे' विशेषः गुणो वर्त्तते । पुनरस्यैव मतस्य समीचीनतां प्रदर्शयति- 'तत्थ ' इत्यादि, तत्थ' तत्र 'जे ते एवमाहंसु' ये ते एवं वक्ष्यमाणप्रकारेण माहुः कथयन्ति यत्'मंडलाओ मंडलं संकममाणे सूरिए' मण्डलान्मण्डलं संक्रामन् सूर्य: 'कण्णकलं निव्वेढे ' कर्णकलां निर्वेष्टयति इति, 'एएणं' एतेन द्वितीयप्रतिपत्तिवादिकथितेन 'णएणं' नयेन - अभिप्रायेण अस्माकं मतेऽपि मण्डलान्मण्डलान्तरसंक्रमणं 'णेयव्वं' ज्ञातव्यम् किन्तु 'नो चेव णं' नैव स्खल 'इयरेणं' इतरेण प्रथमप्रतिपत्तिवादिकथितेन, अन्यैर्वा कैश्चित् कथितेन नयेन । तत इदमेव मतं ज्ञातव्यम् इतरेमते दोपसद्भावेन अस्यैव मतस्य समीचीनत्वात् तीर्थकरसंमतत्वाच्चेति ॥
॥ इति द्वितीयस्य मूलप्राभृतस्य द्वितीयं प्राभृतप्राभृतं सम्पूर्णम् ॥२- २॥
द्वितीयस्य प्राभृतस्य तृतीयं प्राभृतप्राभृतम् ।
तदेवमुक्तं द्वितीयमूलप्राभृतस्य द्वितीयं प्राभृतप्रामृतम्,
अथ तृतीयमाह अस्यायमर्थाधिकारः - " मण्डले २ प्रतिमुहूते सूर्यस्य गतिर्व कन्या " इत्येतद्विषयकं सूत्रमाह- 'ता केवइयं' इत्यादि ।
-
मूलम् ता केवइयं खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छ ? आहितेति वएज्जा । तत्थ खल इमाओ चत्तारि पडिवत्तीओ पण्णत्ताओ, तं जहा तत्थ एगे एवमाहंसु - ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छा, एगे एवमाहंसु |१| एगे पुण एवमाता पंच पंच जोयणसहस्साई बरिए एगमेगेणं मुदुतेणं गच्छइ, एगे एव