SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ शतिप्रकाशिका टीका प्रा०२ - १ सू०१ सूर्यस्य द्वितीयपण्मासाहोरात्रे क्षेत्रसंचरणम् १०३ 'अ' अष्टौ अष्टसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परतैर्थिकमान्यतारूपाः 'पण्णत्ताओ' प्रज्ञप्ताः 'तं जहा' तद्यथा--ता एव क्रमेणाह - 'तत्थेगे' इत्यादि । 'तत्थ' तत्र तेषु अष्टसु परतीथिंकेषु मध्ये 'एगे' एके केचन प्रथमाः परतीर्थिकाः ' एवं ' एवम् - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः - कथयन्ति - 'ता' तावत् 'पुरत्थिमिल्लाओ' लोयंताओ' पौरस्यात् पूर्वदिग्भागवर्तिनः लोकान्तात् लोकान्तिमभागात् ऊर्ध्वमितिशेषः पूर्वस्यां दिशीत्यर्थः 'मरीची' इति मरीचिसंघातः किरणसमूह इत्यर्थः 'आगासंसि उत्ति' आकाशे उत्तिष्टति उत्पद्यते एतेनायमाशयः - नैतद्विमानं, न रथः, न च कोऽपि देवता रूपः सूर्यः किन्तु तथाविधलोकस्वाभाव्यात् एप किरणसङ्घात एव वर्त्तल गोलाकारः प्रतिदिनं पूर्वे दिग्विभागे प्रातराकाशे समुत्पद्यते येन सर्वत्र प्रकाशः प्रसरति । 'से णं' स खलु एवम्भूतः मरीचिसंघातः समुत्पन्नः सन् 'इमं' इमं दृश्यमानं 'लोय' लोकं तिर्यक् लोकं ‘तिरियं करेड़' तिर्यक्कू करोति तिर्यक् परिभ्रमन् एष मरीचिसंघात इमं तिर्यगूलोकं प्रकाशयतीतिभावः, 'करिता' कृत्वा तिर्यक् कृत्वा च ' पच्चत्थिमिल्लंसि लोयंतंसि ' पाश्चात्ये लोकान्ते पश्चिमदिग्वत्तिलोकान्तिमभागे 'सायं' सन्ध्यासमये 'विद्धंसइ' विध्वंसते तथा विधलोकानुभावात्तत्राकाश एवं ध्वंसमुपयाति विलीनो भवतीति भावः । एवं सकलकालमेव भवतीति, अत्रोपसंहारमाह- 'एगे एत्रमासु' एके प्रथमास्तीर्थान्तरीयाः एवं - पूर्वोक्तप्रकारेण आहुः–कथयन्तीति । एषा प्रथमा प्रतिपत्तिः ॥ १ ॥ द्वितीयामाह - 'एगे पुण' एके केचन द्वितीया पुनः ' एवं ' एवं वक्ष्यमाणप्रकारेण आहंसु' आहुः कथयन्ति । किं कथयन्तीत्याह - 'ता' इति वाक्यालङ्कारे 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् पुर्वदिग्विभागात् उर्ध्वं 'पाओ' प्रातः 'सूरिए' सूर्यः लोकप्रसिद्धो देवतारूप: 'आगासंसि उति ' आकाशे उत्तिष्ठति उदेति तथाविधलोकस्वाभान्यात् आकाशे उत्पद्यते 'से' स खलु उत्पन्नः सन् सूर्यः 'इमं लोय' इम तिर्यगलोकं ‘तिरियं करेइ' तिर्यक्करोति तिर्यक् परिभ्रमन् प्रकाशयतीति भावः ।' करिता ' कृत्वा तिर्यक् कृत्वा 'पच्चत्थिमिल्लेसि लोयंतंसि' पाश्चात्ये लोकान्ते पश्चिमायां दिशि 'सायं' सायं सन्ध्याकाले 'सूरिए' सूर्यः 'आगासंसि ' आकाशे एव 'विद्धंसई' विध्वंसते विलीयते इति भावः । उपसंहारमाह - एगे एवमाहंस' एके केचन पूर्वप्रदर्शिता द्वितीयप्रतिपत्तिवादिनः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति द्वितीया प्रतिपत्तिः | २ || अथ तृतीयां प्रत्तिपत्तिमाह - ' एगे पुण' एके पुनः तृतीयास्तीर्थान्तरीयाः 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेण आहुः - कथयन्ति, तदेव प्रदर्श्यते 'ता' तावत् 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् उर्ध्व 'पाओ' प्रातः 'सूरिए' सूर्यः देवतारूपः तथाविध पुराणशास्त्रप्रसिद्धः सदावस्थायी 'आगासंसि उत्ति ' आकाशे उत्तिष्ठति 'से णं' स खलु उत्थितः सन् 'इमं लोयं तिरियं करेइ' इमं मनुष्यलोकं तिर्यक् करोति 'करिता' कृत्वा च ' पच्चत्थिमिल्लंसि लोयंतंसि' पाश्चात्ये लोकान्ते – लोक
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy