________________
चन्द्राप्तिप्रकाशिका टीका प्रा०-१-८ सू० १४
मण्डलपदानां प्रमाणनिरूपणम् ८७ तदा पूर्वोक्तपरिस्थितौ खलु 'अद्वारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूर्ती दिवसो भवति किन्तु सः 'दोहिं एगसद्विभागमुहुत्तेर्हि' द्वाभ्यामेकपष्टिभाग मुहूर्त्ताभ्याम् 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्त्ता रात्रिर्भवति सा च 'दोहिं एगसट्टिभागमुहतेहिं' द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्याम् 'अहिया' अधिका भवतीति ।
कथमेतदायामविष्कम्भयोः परिधैश्च परिमाणं लभ्यते इति तदेव प्रदर्शयामः, तत्र प्रथम - मायामविष्कम्भयो. परिमाणं प्रदर्श्यते, तथाहि - एकः सूर्यो द्वे योजने एकस्य योजनस्य सर्वा - भ्यन्तरमण्डलगताष्टचत्वारिंशदेकपष्टिभागांश्च - (२ - ४८६१) बहिरवष्टभ्य द्वितीये मण्डले चारं चरति । एवमेव द्वितीयोऽपि सूर्यो द्वे योजने, सर्वाभ्यन्तरमण्डलगताष्टचत्वारिंशदेकषष्टिभागांश्च (२ - ४८/६१) वहिरवष्टभ्य पुनर्द्वितीये मण्डले चारं चरति ततो द्वयोः संमेलने जातानि पञ्चयोजनानि तदुपरि योजनस्य पञ्चत्रिंशदेकपष्ठिभागाश्च ( ५ - ३५ / ६१) भवन्ति । एषा संख्या प्रथममण्डलायामविष्कम्भपरिमाण (९९६४०) मध्येऽधिकत्वेन प्रक्षिप्यते ततो जातं यथोक्तमायामविष्कम्भपरिमाणं पञ्चचत्वारिशदधिकपट्ातोत्तरनवनवतिसहस्रयोजनानि पञ्चत्रिंशचैकपष्टिभागा योजनस्य ( ९९६४५ - ३५/६१ ) इति । इदमायाविष्कम्भपरिमाणं लब्धम् । परिघिपरिमाणमेवं लभ्यते, तथाहि - पञ्च योजनानि पञ्चत्रिंशच्चैकपष्टिभागा योजनस्य, इत्यस्य सर्वे - एक षष्टिभागाः क्रियन्ते तदर्थं पश्च योजनानि एकषष्ट्या गुण्यन्ते, जातानि पञ्चोत्तराणि त्रीणि शतानि (३०५) एषु एकषष्टिभागेषु उपरितनाः शेषाः ये पञ्चत्रिंशत् (३५) एकषष्टिभागास्ते प्रक्षिप्यन्ते ततो जातानि चत्वारिंशदधिकानि त्रीणि शतानि (३४०) एतेषां वर्गकरणात् जातं पट् शताधिक पञ्चदशसहस्रोत्तरमेकं लक्षम् (११५६००) एषोऽङ्कसमुदायो दशभिर्गुण्यते ततो जाता एकशून्याधिका पूर्वोक्ता संख्या ( ११५६०००) । एषां वर्गमूलानयने लभ्यते पञ्चसप्तत्यधिक्रमेकं सहस्रम् (१०७५) । अस्य योजनकरणार्थमेकपष्ट्या भागो ह्रियते तदा लब्धानि सप्तदशयोजनानि अष्टत्रिंशच्च एकषष्टिभागा योजनरय ( १७ - ३८।६१) शेपाऽष्टत्रिंशदूपासंख्या निष्ठति सात्यक्ता । एतत् (१७ - ३८१६१) पूर्वमण्डलपरिधिपरिमाण (३१५०८९) मध्येऽधि कत्वे प्रक्षिप्यते ततो जातं यथोक्तं परिधिपरिमाणं सप्तोत्तरशताधिकपञ्चदशसहस्रोत्तरं लक्षत्रयम् (३१५१०७) किञ्चिद्विशेपोनं- किञ्चिदूनत्रयोविशत्येकषष्टिभागानां होनत्वादिति । 'सेणिक्खममाणे सूरिए' स निष्क्रामन् सूर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे अभितरं मंडल' अभ्यन्तरम् अभ्यन्तरसम्बन्धित्वादभ्यन्तरं तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'अभितरं तच्चं मंडलं'. अभ्यन्तरं तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'तया णं' तदा खल 'सा मंडलच्या' तानि मण्डलपदानि 'अड़यालीसं एगसट्टिभागा जोयणस्स' अष्टचत्वारिं