________________
प्रियदर्शिनी टीका अं० ३६ देवानामायु स्थितिनिरूपणम्
विंशतिं सागरान्, उत्कर्षेण स्थितिर्भवति । पाणते जघन्येन, सागरान् एकोनविंशतिम् ॥ २३०॥ सागरान् एकविंशतितु, उत्कर्षेण स्थितिर्भवति । आरणे जघन्येन, विंशतिं सागरोपमाणि ॥२३१॥ द्वाविंशतिं सागरान् तु, उत्कर्षेण स्थितिर्भवति । अच्युते जघन्येन, सागरान् एकविंशतिम् ॥ २३२ ॥ त्रयोविंशति सागरान् तु, उत्कर्षेण स्थितिर्भवति । प्रथमे जघन्येन, द्वाविंशति सागरोपमाणि ॥ २३३॥ चतुर्विंशति सागरीन्, उत्कर्षेण स्थितिर्भवति । द्वितीये जघन्येन, त्रयोविंशति सागरोपमाणि ॥ २३४॥ पञ्चविंशति सागरान् उत्कर्षेण स्थितिर्भवति । तृतीये जघन्येन, चतुर्विंशतिं सागरोपमाणि ॥ २३५॥ षड्विंशतिं सागरान् तु, उत्कर्षेण स्थितिर्भवति । चतुर्थे जघन्येन, सागरान् पञ्चविंशतिम् ॥२३६॥ सागरान् सप्तविंशतितु, उत्कर्षेण स्थितिर्भवति । पञ्चमे जघन्येन, सागरांस्तु षड्विंशतिम् ||२३७॥ सागरान् अष्टाविंशतिं तु, उत्कर्षेण स्थितिर्भवति । षष्ठे जघन्येन, सागरान् सप्तविंशतिम् ॥२३८॥ सागरान एकोनत्रिंशतं तु, उत्कर्षेण स्थितिर्भवति । सप्तमे जघन्येन, सागरान् अष्टाविंशतिम् ॥ २३९ ॥ त्रिंशतं तु सागरान्, उत्कर्षेण स्थितिर्भवति । अष्टमे जघन्येन, सागरान् एकोनत्रिशतम् ॥ २४०॥ सागरान् एकत्रिंशतं तु, उत्कर्षेण स्थितिर्भवति । नव जघन्येन त्रिशतं सागरोपमाणि ॥ २४९ ॥ त्रयस्त्रिंशतं सागरान्, उत्कर्षेण स्थितिर्भवति । चतुर्ष्वपि विजयादिषु, जघन्येन एकत्रिंशतम् ॥ २४२ ॥ अजघन्यानुत्कृष्टा, त्रयस्त्रिशतं सागरोपमाणि ।
महाविमाने सर्वार्थे स्थितिरेषा व्याख्याता ॥ २४३॥
९२३
टीका --- 'साहियं सागरं एकं' इत्यादि
भोमेयानां=भूमौ भवाः भौमेयाः - भवनवासिनः, तेषां स्थितिः आयुः स्थितिः उत्कर्षेण साधिकमेकं सागरं = सागरोपममित्यर्थः । एवमुत्तरत्रापि सागरशब्दः