________________
मानवन्द्रिका टीका-शास्त्रप्रशस्तिः
(६) पुत्री शुशीला शुभवाललीला,
"श्रीसुन्दरी" नाम विराजतेऽस्य । स्मेरानना पङ्कजिनीव कल्ये, तथे-" न्दुमत्य"-न्यमनोहराऽऽख्या ॥६॥
(७) श्री वाडिलालस्य कनिष्ठबन्धु,
"मनोहरो" नाम मनोहराङ्गः । तस्याऽस्ति भार्या किळ “ मजुला"-ख्या,
धर्मानुरक्ता सरलस्वभावा ॥ ७ ॥ योग-शीतांशु-शून्या-क्षि,-(२०१३) मिते वैक्रमवत्सरे । वैशाखस्य सिते पक्षे, तृतीयायां गुरोदिने ॥ ८ ॥ पुरे “वीरमगामे "ऽस्मिन् , “ गुर्जरा"-न्तर्गते गतः । "नन्दीसूत्रस्य " सम्पूर्णी, टोकां तत्प्रार्थितो व्यधाम् ॥९॥
॥ इति शास्त्रमशस्तिः सम्पूर्णा ॥ इति श्रीविश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक
श्रीशाहूछत्रपति-कोल्हापुरराजमदत्त'जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्यजैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचिता नन्दीसूत्रस्यज्ञानचन्द्रिका टोका सम्पूर्णा ।
॥ शुभं भूयात् ॥ ॥श्रीरस्तु ॥