________________
४०४
नदीसूत्रे तओ ईहं पविसइ । तओ जाणइ-अमुगे एस सुमिणे । तओ अवायं पविसइ । तओ से उवगयं हवइ । तओ धारणं पविसइ। तओ णं धारेइ-संखेज्जं वा कालं असंखेज्जं वा कालं । सेतं मल्लगदिट्टतेणं ॥ सू० ३५॥ ___ छाया-स यथानामकः कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् , तेन शब्द इत्यवगृहीतम् , नो चैव खलु जानाति-को वैप शब्द इति ? । तत ईहां प्रविशति । ततो जानाति-अमुक एष शब्दः। ततोऽवायं प्रविशति । ततः स उपगतो भवति । ततो धारणां प्रविशति । ततः खलु धारयति-संख्येयं वा कालम् , असंख्येयं वा कालम्।
स यथानामकः कश्चित् पुरुषोऽव्यक्तं रूपं पश्येत् , तेन रूपमित्यवगृहीतम् , नो खलु चैव जानाति-किं वा एतद् रूपमति । तत ईहां प्रविशति । ततो जानाति-अमुकमेतद् रूपम् । ततोऽवायं प्रविशति । ततस्तदुपगतं भवति । ततो धारणां प्रविशति । ततः खलु धारयति-संख्येयं वा कालमसंख्येयं वा कालम् ।
स यथानामकः कश्चित् पुरुषोऽव्यक्तं गन्धमाजि त् , तेन गन्ध इत्यवगृहीतम् , नोचैव खलु जानाति-को वैप गन्ध इति ?। तत ईहां प्रविशति । ततो जानाति-अमुक एष गन्ध इति । ततोऽवायं प्रविशति, ततः स उपगतो भवति । ततो धारणां प्रविशति । ततः खलु धारयति-संख्येयं वा कालम् असंख्येयं वा कालम् ।
स यथानामकः कश्चित् पुरुषोऽव्यक्तं रसमास्वादयेत् , तेन रस इत्यवगृहीतम् , नो चैव खलु जानाति-को वैष रस इति । तत ईहां प्रविशति । ततो जानाति-अमुक एप रसः। ततोऽवायं प्रविशति । ततः स उपगतो भवति । ततो धारणां प्रविशति । ततः खलु धारयति-संख्येयं वा कालम् , असंख्येयं वा कालम् ।
स यथानामकः कश्चित् पुरुषोऽव्यक्तं स्पर्श प्रतिसंवेदयेत् , तेन स्पर्श इत्यवगृहीतम् , नो चैव खलु जानाति को वैष स्पर्श इति । तत ईहां प्रविशति । ततो जानाति -अमुक एप स्पर्शः । ततोऽवायं प्रविशति । ततः स उपगतो भवति । ततो धारणा प्रविशति । ततः खलु धारयति-संख्येयं वा कालम् , असंख्येयं वा कालम् ।
स यथानामकः कश्चित् पुरुषोऽव्यक्तं स्वप्नं पश्येत , तेन स्वप्न इत्यवगृहीतम् , नो चैव खलु जानाति-को वैष स्वप्न इति ? । तत ईहां प्रविशति । ततो जानाति-अमुक एप स्वप्नः । ततोऽवायं प्रविशति । ततः खलु धारयति-संख्येयं वा कालम् असख्येयं वा कालम् । तदेतत् मल्लकदृष्टान्तेन ॥ मू० ३५॥