________________
चूर्णिमायावचूरिः उ० २ सू० ५०-६० प्रणष्टशय्याद्यगेवपणोपध्यप्रतिलेखन निषेधः ७५ कृत्वा विहारकाले 'अविगरणं कट्टु अणप्पिणित्ता' अविकरणं कृत्वा - अनर्पयित्वा विकरणम् अन्यथा करणं, न तथा-अविकरणं - यथागृहीतं तथाकरणमित्यर्थः, तत् कृत्वा श्रावकात् पीठफलकतृणादिकं यथागृहीतं तथाकृत्वा - तथा संपादनपूर्वकम्, अनर्पयित्वा - अदत्त्वा मत्कुणादिजीवसहितमेव पीठफलका दिकं तृणादिसंस्तारकं च दत्त्वेति भावः 'संपव्त्रयइ' संप्रव्रजति - विहारं करोति, तथा 'संपव्वयंतं' संप्रत्रजन्तमन्यम् 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५७ ॥
सूत्रम् -- जे भिक्खू पाडिहारियं वा सागास्यिसंतियं वा सेज्जासंथारगं विप्पण न गवेसइ न गवेसंतं वा साइज्जइ ॥ सू० ५८ ॥
छाया -यो भिक्षुः प्रातिहारिकं वा सागारिकसत्कं वा शय्यासंस्तारकं विप्रणष्टं न गवेषयति न गवेपयन्तं वा स्वदते ॥ सू० ५८ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाडिहारियं वा' प्रातिहारिकं - प्रत्यर्पणार्हम् 'सागारिय संतियं' सागारिकसत्कम् सागारिकसम्बन्धिकं सांप्रतं श्रमणाधीनम् 'सेज्जासंथारगं' शय्यासंस्तारकं - पीठफलकादिकं रक्ष्यमाणमपि 'विपणहूं' विप्रणष्टम्-चौरादिनाऽपहृतम् तद्यदि 'ण गवेसइ' न गवेषयति, इतस्ततोऽन्यान्यं न पृच्छति तद्रूपां गवेपणां न करोतीत्यर्थः, तथा ' न गवेसंतं साइज्जइ' न गवेपयन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चित्ता भवति ॥ सू० ५८ ॥
सूत्रम्--जे भिक्खू इत्तरियंपि उवहिं ण पडिलेहइ ण पडिलेहंत वा साइज्जइ ॥ सू० ५९ ॥
छाया -यो भिक्षुः इत्वरिकमपि उपधिं न प्रतिलेखयति न प्रतिलेखयन्तं वा स्वदते ॥ सू० ५९ ॥
"
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'इत्तरियंपि उबर्हि' इत्यरिक स्वल्पमप्युपधि वस्त्रपात्रादिकम्, सत्रिधा - जघन्य - मध्यमो - कृष्टभेदात् । तत्र - जघन्यो मुखवस्त्रिका वस्त्रखण्डं वा, मध्यमः -प्रावरणचोलपट्टकादिरूपः, उत्कृष्ट :- सर्व वस्त्रपात्रादिकम् तस्मिन् स्वल्पमपि मुखवस्त्रिका रूपमपि 'न पडिलेहर' न प्रतिलेखयति तस्य प्रतिलेखनां न करोति उभयकाल सर्वभाण्डोप करणादीनाम् तेन प्रमादी भवति । प्रमादप्रभावात् संयमकियां विस्मरति । एकस्यां संयमक्रियायां विस्मृतायामन्यापि स्वाध्यायादिक्रिया विस्मृता भवति, ततश्चारित्रभ्रंशः, चारित्रभ्रंशात्-चातुर्गतिकसंसारभ्रमणमनन्तजन्ममरणप्राप्तिः, तस्मादुभयकालं सर्वभाण्डोपकरणानां प्रतिलेखना कर्त्तव्या । 'ण पडिलेहंतं वा साइज्जइ' न प्रतिलेखयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ५९ ॥
9