________________
७
निशीथसूत्रे याचते, तस्याज्ञाभङ्गादिका दोषा भवन्ति । तथा-पूर्वपश्चात्संस्तुते उद्गमैपणादिदोषा भवन्ति, एवमुद्गमादिदोपाः श्रावकेऽपि भवन्ति । तथा पूर्वपश्चात्संस्तुतेऽपि एते दोपा:-ये श्रावकस्य पूर्वपश्चासंस्तुतास्ते परगृहेपु-अवभाषमाणा एवं कुर्युः-एप नित्यमस्माकमेव गृहे तिष्ठतीति कृत्वा, उद्गमादिदोपदुष्टमप्यशनादिकं करिष्यन्ति, परुपादिकं च वदेयुः । यस्मादिमे दोपा भवन्ति तस्मात्सागारिकनिश्रया पूर्वपश्चात्सस्तुतस्य सागारिकस्य निश्रया वा श्रावककुलेऽवभाण्याऽवभाज्याशनादीनां याचना न कर्त्तव्या । सागारिकस्याहारादिग्रहणं प्रागेव निषिद्धं पुनरत्र सागारिकनिश्राघटकस्य सागारिकशब्दस्य कोऽर्थः ? इत्यत आह-अत्र सागारिकशब्देन सामान्यो गृहस्थो वोध्यः ॥ मू० ४९ ॥
सूत्रम्--जे भिक्खू उज्वद्धियं सेज्जासंथारंगं परं पज्जोवसणाओ उवाइणावेइ उवाइणावेत वा साइज्जइ ।। सू० ५०॥
छाया-यो भिक्षुः ऋतुबद्धकं शय्यासंस्तारकं परं पर्युषणातः अतिक्रामयति अति. कामयन्तं वा स्वदते ॥ सू० ५० ।।
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उउवद्धियं सेज्जासंथारगं' ऋतुबद्वकम्-ऋतुबद्वकालसम्बन्धि शय्यासंस्तारकम् पीठफलकतृणादिकं, शय्या च संस्तारकश्च, अनयोः समाहारे शय्यासंस्तारकम् , तत्र-शय्या शरीरप्रमाणा, सस्तारकः सार्द्धहस्तव्यप्रमाणः । ऋतुबद्वे-मार्गशीर्षायापाढपर्यन्ताष्टमासात्मके शेपकाले गृहीतं शय्यासस्तारकम् शेषकाले समानीतं शय्यासंस्तारकं 'परं पज्जोवसणाओ' पर्युषणातः परं संवत्सरीदिनतः परम् 'उवाइणावेई' अतिक्रामयति उल्लइयति यस्माद् गृहोतं तस्मै यः समर्पणकालस्तमुल्लयति, ऋतुवद्वकालगृहीतशय्यासंस्तारकं गृहस्थाय न समयं पर्युपणानन्तरं तस्योपभोगं करोतीत्यर्थः, अतिक्रामयन्तं वा स्वदते स प्रायश्चित्तभाग् भवति । संवत्सरीदिनतः प्रागेव तद् भोक्तव्यम् , संवत्सरीदिने तत् तत्स्वामिने समर्पणीयमेवेति भावः । यदि तस्योपभोगकारण स्यात् तदा तदुपभोगाय तत्स्वामिन आज्ञा पुनर्ग्रहीतव्येति विवेकः ॥ सू० ५० ॥
सूत्रम्-जे भिक्खू वासावासियं सेज्जासंथारयं परं दसरायकप्पाओ उवाइणावेइ उवाइणावेंतं वा साइज्जइ ।। सू० ५१ ॥
छाया-यो भिक्षुः वर्षावासिकं शय्यासंस्तारकं परं दशरात्रकल्पात् अतिक्रामयति अतिक्रामयन्तं वा स्वदते ॥ सू० ५१ ॥
चूणि:-'जे भिक्खू' इत्यादि । 'जे भिक्ख यो भिक्षुः वासावासियं' वर्षावासिक वर्षाकाले उपभोगार्थमानीतम् तत्-'सेज्जासंथारगं' शय्यासंस्तारकम् वर्षाकाले व्यतीतेऽपि