________________
चूर्णिभाष्यावचूरिः उ० १ सू० ५१-५६ वस्त्रस्य सीवनफलिकाग्रन्थनप्रकरणम् २७
अथास्य प्रकृतसूत्रस्य पञ्चाशता सूत्रेण सह कः संबन्धः ? इति चेत् अत्रोच्यते-पूर्वपूर्वतरसूत्रेषु थिग्गलसंयोजनं कथितम् । तत् थिग्गलं सीवनमन्तरेण न संभवति इति थिग्गलसीवनं स्मारति, तत्सीवन केन विधिना भवतीति सीवनविधिप्रदर्शनार्थमेतत्सूत्रमाह-'जे भिक्खू' इत्यादि । सूत्रम्-जे भिक्खू अविहीए वत्थं सिव्वइ सिव्वंतं वा साइज्जइ ।५१।
छाया-यो भिक्षुरविधिना वस्त्र सीव्यति सीब्यन्तं वा स्वदते ॥सू० ५१॥ चूर्णी-'जे भिक्खू' यो भिक्षुः, 'अविहीए' अविधिना-विधिमुल्लच्य, 'वत्थंसिव्वई' वस्त्रं प्रावरणचोलपट्टादिकं सीव्यति सीवनं करोति, कारयति 'सिव्वंतं वा साइज्जइ' सीव्यन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति । अयं भावः-यथा गृहस्थः शोभार्थ वस्त्रादौ जालिकां करोति तथा यदि 'साधुः कुर्यात्, यद्वा कुर्वन्तमनुमोदयेत् तदा तादृशवस्त्रस्य प्रतिलेखनादिकं कत्तुं न शक्ष्यति, अतोऽविधिपूर्वकं तत् सीवनम्-इति, तथाकरणे कर्तुः कारयितुः कुर्वन्तमनुमोदयितुर्भवत्येव प्रायश्चित्तम् ।
अयं भावः-सीवनं पञ्चप्रकारकम्-गग्गरकसीवनम् १ दण्डिसीवनम् २ जालिकासीवनम् ३ एकसरासीवनम् ४ दुष्कीलकसीवनम् च ५ भवति । तत्र-गग्गरसीवनं दण्डिसीवनं च यथा गृहस्थानां 'कुर्ता-कोट, कोत्थल-कोथला-कोथली' इत्यादिभाषाप्रसिद्धानां सीवनम् १-२, जालिकासीवनं प्रसिद्धं वस्त्रेषु जालिंकादिकरणेन विच्छित्तिसम्पादनम् ३ । एकसरासीवनं लोकप्रसिद्ध 'कसीदा' 'भरत' इत्यादिनाम्ना ४ । दुष्कीलकसीवनं यथा तथा सोन्यते, यथा-उभयतो वस्त्रस्य कीलकमिर्व डोरकं भवति ५ । एतत्सर्वं सीवनमविधिरूपम्, यत एतेषु प्रत्युपेक्षणादिकं सम्यक् न संभवति अतो नैतत्कर्त्तव्यम् । विधिसीवनं गोमूत्रिकाकारसीवनं स्वसमयप्रसिद्धमिति दिक् ।। सू० ५० ॥
सूत्रम्-जे भिक्खू वत्थस्स एगं फलिय गंठियं करेइ करेंतं वा साइज्जइ॥ सू० ५२॥
छाया-यो भिक्षुर्वस्घ्रस्यैकां फलिका प्रथितां करोति कुर्वन्तं वा स्वदते ॥सू० ५२॥
चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्यस्स' वस्त्रस्य, 'एगं फलियं गंठियं करेई' एकां फलिकां-वस्त्रान्तस्थिततन्तुजालरूपां ग्रथितां करोति वस्त्रान्तस्थिततन्तुजालं फलिकारूपेण प्रथ्नातीत्यर्थः, 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तमागू भवति । शेषं प्राग्वत् ॥ सू० ५२ ॥