SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावचूरिः उ० २० सू० ४०-४३ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५५ चूर्णी-'दोमासियं' इत्यादि । 'दोमासियं परिहारहाणं' द्वैमासिकं पूर्वसूत्रसंप्राप्त परिहारस्थानम् 'पविए अणगारे' प्रस्थापितोऽनगार; इत्यादि व्याख्या स्पष्टा । अत्र विशेषस्त्वयम् यदा द्वैमासिकपरिहारस्थानसेवनायां पाक्षिको आरोपणा संमेल्यते तदा 'अड्डाइज्जा दोमासा' अर्धतृतीयौ द्वौ मासो प्रायश्चित्तरूपेण भवतः इति ॥ सू० ३९ ॥ सूत्रम्-अड्डाइज्जमासियं परिहारट्ठाणं पठविए अणगारे अंतरा मासियं परिहारठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं,तेण परं तिण्णि मासा ॥ सू०४०॥ छाया-सार्धद्वैमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिकं तेन पर त्रयो मासा ॥सू० ४०॥ चूर्णी- 'अलाइज्जमासिय' इत्यादि । 'अडूढाइज्जमासियं अर्धतृतीयमासिकम् साधमासदयं पूर्वसूत्रसंप्राप्तम् 'परिहारहाणं' परिहारस्थानं प्रति 'पट्टविए' प्रस्थापितोऽनगारः, इत्यादि व्याख्या प्राग्वत्, अत्र सार्धद्वैमासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी मारोपणा समेल्यते तदा 'तिणि मासा' त्रयो मासाः प्रायश्चित्तरूपेण भवन्तीति ॥ सू० ४० ॥ सूत्रम्-तेमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअष्टुं सह सकारणं अहीणमइरित्तं तेण परं अछुट्टा मासा ।। सू० ४१॥ छाया-त्रैमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परम् अर्धचतुर्था मासाः ॥ सु. ४॥ - चूर्णी-'तेमासियं' इत्यादि । 'तेमासियं परिहारहाणं पट्टविए' त्रैमासिकं पूर्वसूत्रसंप्राप्त परिहारस्थानं प्रस्थापितोऽनगारः, शेषं पूर्ववत्, अत्र सर्व प्रायश्चित्तम् 'अधुद्वामासा' इति अर्धचतुर्थाः, चतुर्थः | यत्र ते अर्धचतुर्थाः-सार्धास्त्रयो मासा भवन्ति, यदा त्रिषु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा सार्धास्त्रयो मासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४१ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy