________________
निशीथसूत्रे
सूत्रम् -- सदसराइयं तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअहं सहेउं सकारण अहीणमइरित्तं तेण परं चत्तारि मासा || सू० २८||
४५०
छाया सदशरात्रिकं त्रैमासिकं परिहारस्थानं प्रस्थापितोऽनगारः अन्तरा द्वैमासिकम् परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने साथै सहेतुं सकारणमहीनमतिरिक्तं तेन परं चत्वारो मासाः ॥ सु० २८ ॥
चूर्णी - 'सदसराइयं' इत्यादि । 'सदसराइयं तेमासियं' सदशरात्रिकं त्रैमासिकम् - दशाहोरात्रसहितं त्रैमासिकं पूर्वसूत्रोक्तम् 'परिहारद्वाणं' परिहारस्थानं सावधकर्मणामनुष्ठानलक्षणम्, तस्मिन् सदशरात्रिकत्रैमासिकपापनाशनाय परिहारतपसि 'पद्य विए अणगारे' प्रस्थापितोऽनगारः प्रायश्चित्तकरणाय नियुक्तो भिक्षुकः यदि 'अंतरा' अन्तरा - मध्ये 'दोमासियं परिहारठ्ठाणं' द्वैमासिकम् मासद्वयसंपादनीयं परिहारस्थानम् 'पडिसेवित्ता आलोएज्जा' प्रतिसेव्य प्रतिसेवनां कृत्वा आलोचयेत् - गुरुसमीपे आलोचनां कुर्यात् तदा 'अहावरा वीसइराइया आरोवणा' अथापरा विंशतिरात्रिको आरोपणा कर्त्तव्या प्रकृतप्रायश्चित्तादतिरिक्ता विशतिरात्रिप्रमाणा दातव्या । कथमित्याह - 'आइमज्झावसाणे' आदिमध्यावसाने प्रत्येकभागे 'सअहं सहेउं सकारण अहीणमइरित्तं' साथै सहेतुं सकारणमहीनमतिरिक्तं सर्व संपूर्ण प्रायश्चित्तं दातव्यम् 'तेण परं चत्तारि मासा' तेन परम् - ततः पूर्वसूत्रो तात्परं सदशरात्रिकमासद्वयविंशतिरात्रिकारोपणसंमेलनात्परं चत्वारो मासाः प्रायश्चित्तरूपेण भवन्ति ॥ सू० २८ ॥
-
सूत्रम् - चाउम्मासि परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमा - सियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअहं सहेलं सकारणं अहीणमइरितं तेण परं सवीसइराइया चत्तारि मासा ॥ सू० २९ ॥
छाया - चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने साथै सहेतुं सकारण महीनमतिरिक्तं तेन परं सविंशतिरात्रिकाश्चत्वारो मासाः ॥ सू० २९ ॥ चूर्णी - 'चाउम्मासियं' इत्यादि । ' चाउम्मासियं परिहारठ्ठाणं चातुर्मासिकं परिहारस्थानम् - मासचतुष्टयेन संपादनीयं पूर्वसूत्रोक्तं परिहारस्थानं प्रति 'पट्टविए' प्रस्थापितः तस्मिन् चातुर्मासिकपरिहारस्थाने समुपस्थापितः 'अणगारे ' अनगारः, शेषं सर्व पूर्वसूत्रवदेव व्याख्येयम्,