________________
पूर्णिभाष्यावरिः उ० १७ सू० २७०-२७१ चमादीनां प्रशंसानिन्दादिश्रवणेच्छानिषेधः ३९९
छाया-यो भिक्षुः वप्रान् वा परिरवा वा यावत् ऐहलोकिकेपु वा रूपेषु पारलोकिकेपु वा रूपेषु यावत् अध्युपपद्यमानं वा स्वदते ॥ सू० २७० ॥
चूर्णी--'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वप्पाणि वा' वप्रान् वा 'वप्र' इति केदारः, दुर्ग., प्राकारः क्षेत्रम्, उन्नतभूभागो बा प्रोच्यते, तान् तादृशान्. वा स्थानविशेपान् , 'फलिहाणि वा' परिखा वा या ग्रामादेः समन्तात् परिवृता गर्तरूपा याः 'खाइ' इति प्रसिद्धास्ताः, 'जाव' यावत् , याक्पदेन इत आरभ्य 'इहलोइएस वा स्वेसु' इति सूत्रपर्यन्तानि द्वादशोद्देशकोकानि चतुर्दश सूत्राणि संग्राह्याणि, तत्र वप्रादीनां प्रशंसानिन्दात्मकानि वार्तादीनि कर्णश्रोतःप्रतिज्ञया अभिसंधारयति, अभिसंधारयन्तं वा स्वदते,॥ सू०२६९॥ तथा 'इहलो इएसु' ऐहलोकिकेपु ऐहलोकिकशब्देन मनुष्या गृह्यन्ते तेन ऐहलोकिकेषु मनुष्यसम्बन्धिपु 'रूवेमु' स्वेषु तथा 'परलइएमु रूवेन्स' अत्र पारलोकिकशब्देन तिर्यञ्चो गृह्यन्ते, तेन पारलोकिकेषु हयगोगजादितिर्यक्षु दृष्टादृष्टादिभेदभिन्नेषु रूपेषु 'जाव' यावत्-यावत्पदेन 'सज्जइ रज्जा गिज्मइ अझोववज्जह सज्जतं रज्जतं गिझंत' आसक्तिं करोति, राां करोति, गृद्धिं करोति, अध्युपपत्तिं करोति, तथा-पूर्वोक्तं कुर्वन्तम् तथा 'अझोववज्जतं' अध्युपपद्यमानम्-अध्युपपत्तिं कुर्वन्तम श्रमणान्तरम् 'साइज्जड' स्वदते--अनुमोदते स प्रायश्चित्तभागी भवतीत्यन्तिमसूत्रार्थः । अत्र प्रथमयाक्पदेन-'जेभिक्खू क्प्पाणि वा फलिहाणि वा० १ एवं वणाणि वा गहणाणि वा २, गामाणि वा गराणि वा०३, गाममहाणि वा णगरमहाणि वा०४, गामवहाणि वा णगरवहाणि वा० ५, गामपहाणि वा णगरपहाणि वा ६, आसकरणाणि वा हत्यिकरणाणि वा० ७, आसजुद्धाणि वा हस्थिजुद्धाजि वा० ८, हयठाणाणि वा इयजूडियठाणाणि वा० ९ अभिसेयठाणाणि वा अक्खाइयठासुणाणि वा १०, कट्टकम्माणि वा चित्तकम्माणि० वा ११, डिवाणि वा डमराणि वा० १२, विरूवरूवेसु महुस्सवेसु इत्थीणि वा पुरिसाणि वा० १३ इहलोडएसु वा रूवेसु० - १४, इति चतुर्दश सूत्राणि द्वादशोदेशकेऽवलोकनीयानि, अर्थोऽपि तत्रैव द्रष्टव्य इति । विशेषस्त्वयम्-यत्तत्र 'चक्खदंसणवडियाए' इत्युक्तम् , अत्र तु 'कण्णसोयवडियाए' इति वाच्यम् । पुनश्च तत्र वप्रादीनां चक्षुषा दर्शनविषयको निपेधः प्रतिपादितः, अत्र तु वप्रादीनां प्रशंसानिन्दात्मकवायाः कर्णाभ्यां श्रवणविषयको निधो ज्ञातव्य इति । तस्मात् कारणात् श्रमणः श्रमणी वा वप्रादीनां प्रशंसानिन्दा. मकवार्तादिश्रवणेच्छया विचारं न कुर्यात् नापि विचारं तत्कुर्वन्तमनुमोदयेत्, तथा पारलोकिकदृष्टा. दृष्टज्ञाताज्ञातश्रुताश्रुतरूपरसगन्धस्पर्शेषु कदाचिदपि आसक्तिरागादिकं न कुर्यात् न वा कारयेत् तथा तादृशरूपादिपु आसक्तयादि कुर्वाणं श्रमणान्तरं कथमपि कदाचिदपि नानुमोदयेत् ।।