________________
निशीथसूत्रे
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणो वा श्रमणी वा 'पासत्थस्स' पार्श्वस्थाय-पार्श्वे सयमस्य समीपे तिष्ठतीति पार्श्वस्थः न तु संयमस्थः, तस्मै 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनं वा पानं वा खाद्यं वा स्वायं वा 'देह' ददाति 'देतं वा ' ददतं वा 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ||सू० ८० ॥ एवमेव पार्श्वस्थाय अशनादिकं 'पडिच्छन्' प्रतीच्छति तत्पार्श्वात् गृह्णाति ॥ | सू० ८१ ॥ एवं पार्श्वस्थाय 'वत्थं वा' वस्त्रं वा चोलपट्टादिकम् 'पडिग्गहं वा' प्रतिग्रहं वा पात्र' वा 'कंवलं वा' कम्बलं वा ऊर्णामयं, 'पायपुंछणं वा ' पादप्रोञ्छनं वा पादप्रमार्जन वस्त्रखण्डं वा ददाति० ॥सू० ८२ ॥ एवं प्रतीच्छति गृह्णाति || सू० ८३ || एवं अशनादेर्दान - ग्रहणरूपं सूत्रद्वयम् तथा वस्त्रादेर्दानग्रहणरूपं च सूत्रद्व यमिति सूत्रचतुष्टयम् अवसन्नविपयकम् ॥ सू० ८७|| कुशीलविषयकम् ॥ सू० ९९ ॥ यथाच्छन्दविषयकम् ॥ सू० ९५|| संसक्तविषयकम् ॥ सु० ९९ || एवं नैत्यिकविषयकमपि सूत्र चतुष्टयम् ॥ सू० १०३ ॥ एतानि चतुर्विंशतिसूत्राणि त्रयोदशोदेशकोक्तसूत्रव्याख्यां नवद् व्याख्येयानि, विशेषस्त्वेताचानेव यत्-तत्र वन्दन - प्रशंसनविषयाणि सूत्राणि सन्ति, अत्र तु अशनादीनां वस्त्रादीनां च दान- ग्रहणविषयाणि वाघ्यानीति ॥
३५८
अत्राह भाष्यकारः
पासत्याओ समारम्भ, णितियंतस्स साहुणो । देतो जो पड़िगिण्हतोऽसणाई दोसभा भवे ॥ छाया - पार्श्वस्थात् समारभ्य नैत्यिकान्ताय साधवे ।
ददन् 'य. प्रतिगृह्णन्, अशनादि दोषभा भवेत् ॥
अवचूरिः - यो भिक्षुः श्रमणः श्रमणी वा पार्श्वस्यात् समारम्य नैत्यिकान्ताय साधवे पार्श्वस्थावसन्न-कुशील-यथाछन्द-ससक्त - नैत्यिकेभ्य इत्यर्थः योऽशनादिकम् - अशनपानादिकं ददन् प्रतिगृह्णन् वा, तथा पार्श्वस्थादिम्योऽशनादिकं ददतः स्वीकुर्वतश्चानुमोदकः स यतिः दोषभाग् भवेत् ॥ सू० १०३ ॥
सूत्रम् - - जे भिक्खू जायणावत्थं वा निमंतणावत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाइ | पडिग्गार्हतं वा साइज्जइ । से य वत्थे चउण्हण्णय रे सिया तंजहा - णिच्चनिवसणिए १ मज्जणिए २ छणूसविए ३ रायदुवारिए ४ ॥ सू० १०४ ॥
छाया - यो भिक्षुर्याचनावत्र वा निमन्त्रणावस्त्र वा अज्ञात्वा अपृष्ट्वा अगवेपयित्वा प्रतिगृद्धाति प्रतिगृह्णन्तं वा स्वदते । तच्च वस्त्र चतुर्णामन्यतमं स्यात् तद्यथानित्यनिवसनिकम् १ मज्जनिकम् २ क्षणौत्सविकम् ३ राजदौवारिकम् ४ ॥ सू० १०४ ॥