________________
पूर्णिभाष्यावद्भिः उ० १५ सू० १-१२ आगाढादिवचन सचित्ताम्रपरिभोगनिषेधः ३४९ छाया-आगाढं परुषं वाक्यं दशमे खलु वर्णितम् ।
तदेवात्रापि शातव्यं नवरं भिक्षुकं प्रति ॥ अवचूरिः-आगाई परुषं वाक्यम् , आगाढपरुषतदुभयाऽऽशातनादीनां स्वरूपम् यदेव दशमोदेशके वर्णितम् तदेव अत्रापि ज्ञातव्यम् यत् पूर्वमुक्तं तदेव पुनरत्र प्रदर्शितम् किन्तु 'नवरं' इत्यादि, नवरम् एतावान् मेदः दशमपञ्चदशोदेशकयोर्भवति यत्-दशमोदेशके आचार्यपर्यायज्येष्टं प्रति आगाढवचनादेः प्रयोगकरणनिषेधो दर्शितः, अत्र पश्चदशोदेशके तु भिक्षुक-सामान्यश्रमणं प्रति आगाढादीनां निषेधो दर्शितः, तादृशप्रयोगकरणे च प्रायश्चित्तादिकं कथितमित्यय भेदः ॥ सू० ४ ॥
सूत्रम्-जे भिक्खू सचित्तं अंब भुंजइ भुंजतं वा साइज्जइ ॥ सू०५॥ छाया-यो भिक्षु. सचित्तम् आनं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ५॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'सचित्तं अंव' सचित्तमात्रम् तत्र चित्तं-जीवः तेन जीवेन सह वर्तते इति सचित्तं-सजीवम् आम्रफलम् 'भुंजई' भुङ्क्ते-अभ्यवहरति तथा 'भुंजत वा साइज्जई' भुञ्जानं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५ ॥
सूत्रम्-जे भिक्खू सचित्तं अंबं विडंसइ विडंसंतं वा साइज्जइ ॥सू०६॥ छाया -यो भिक्षुः सचित्तमानं विदशति विदशन्तं वा स्वदते ॥सू० ६॥
चूर्णी -'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'सचित्तं अंब' सचित्तं सजीवमानम् 'विडंसई' विदशति-चूषति भक्षयति वा 'विडंसंत वा साइज्जइ' विदशन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ६॥ . सूत्रम्--जे भिक्खू सचित्तं अंबं वा अंबपेसियं वा अंबभित्तं वा अंवसालगं वा अवचोयगं वा भुंजइ भुंजतं वा साइज्जइ ॥ सू०७॥ .
छाया-यो भिक्षः सचित्तमानं वा आम्रपेशिकां वा आनभित्तं वा आम्रसाल घा आम्रचोयगं वा भुङ्क्ते भुज्जान वा स्वदते ॥सू.७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचित्तं अवं वा' सचित्तमानं वा सजीवमाम्रफलमित्यर्थः 'अंवपेसियं वा' आम्रपेशिकां वा सचित्तामाम्रपेशीम् , तत्र पेशी दीर्घाकाराम्रफलस्यावयवलक्षणा तादृशीम् आम्रफलपेशोम्, 'अंबभित्तं वा' आम्रभित्तं वा तत्र भित्तम्-खण्डः आम्रफलस्यार्द्धभाग इत्यर्थः तत् 'अंबसालगं का' आम्रसालकं वा, तत्र-बाह्या छल्ली सालमिति कथ्यते 'अंबचोयगं वा' आम्रचोयगं वा तत्र-चोयगम् - आन्तरत्वचा तत् 'भुंजई' भुक्ते स प्रायश्चित्तभागी भवति ॥ सू० ७॥