________________
चर्णिभाष्यावचूरि: उ०१२ सू० १९-२३ ग्रामादीनां मह-वध पथ-दाह-दर्शनेच्छानिषेधः २९३
7
.
छाया-यो भिक्षुामान् वा नगराणि वा निगमान् वा खेटानि वा कर्बटानि वा मडम्बानि वा द्रोणसुखानि वा पत्तनानि वा आकरान् वा संवाहान् वा संनिवेशान् वा चक्षुर्दर्शनप्रतिझया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० १९॥
पूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गामाणि वा' प्रामान् वा, तत्र प्रामाः वृतिवेष्टिताः तान् 'णगराणि वा' नगराणि वा नगराणि यत्र अष्टादशकरादिकं न गृह्यते तादृशानि स्थानानि, तानि, 'णिगमाणि वा निगमान् वा, निगमाः प्रभूततरवणिग्जननिवासाः, तान् वा, 'खेडाणि वा' खेटानि वा, तत्र खेटानि नाम धूलिप्राकारवेष्टितानि, तानि 'कब्बडाणि वा' कर्बटानि वा, तत्र कटानि कुत्सितानि नगराणि, अल्पजननिवासस्थानानि वा 'मडवाणि वा' मड्बानि वा' मडम्बानि सार्द्धकोशद्वयाभ्यन्तरे ग्रामान्तररहितानि, तानि, 'दोणमुहाणि वा' द्रोणमुखानि वा-द्रोणमुखानि जलस्थलोपेता जननिवासाः, तानि 'पट्टणाणि वा' पत्तनानि वा, तत्र पत्तनानि समस्तवस्तुप्राप्तिस्थानानि, तानि द्विविधानि जलपत्तनानि स्थलपत्तनानि च, तत्र नौभिर्येषु गम्यते तानि जलपत्तनानि, येषु च शकटादिभिर्गम्यते तानि स्थलपत्तनानि, तानि 'आकराणि वा' आकरान् वा सुवर्णादीनामुत्पत्तिस्थानानि 'संवाहाणि वा' संबाहान् वा, तत्र संवाहा नाम अन्यत्र कृषिबलैर्धान्यरक्षार्थ निर्मितानि दुर्गमस्थानानि, तान् 'संनिवेसाणि वा' संनिवेशान् वा, तत्र संनिवेशाः-समागतसार्थवाहादिनिवासस्थानानि, तान् 'चक्खुदंसणवडियाए' इत्यादि व्याख्या पूर्ववत् ॥ सू० १९॥
सूत्रम्--जे भिक्खू गाममहाणि वा णगरमहाणि वा णिगममहाणि वा खेडमहाणि वा कब्बडमहाणि वा मडंबमहाणि वा दोणमुहमहाणि वा पट्टणमहाणि वा आगरमहाणि वा संबाहमहाणि वा संनिवेसमहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू०२०॥
छाया-यो भिक्षुमिमहान् वा नगरमहान् वा निगममहान् वा कर्बटमहान् वा मडम्बमहान् वा द्रोणमुखमहान् वा पत्तनमहान् वा आकरमहान् वा संवाहमहान् वा संनिवेशमहान् वा चक्षुदर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥२०॥
चूर्णी- जे भिक्खू' इत्यादि । 'जे भिक्ख्' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'गाममहाणि वा' ग्राममहान् वा, तत्र ग्रामस्य महा उत्सवा ग्राममहाः ग्रामोत्सवा इत्यर्थः तान 'मेला' इति भाषाप्रसिद्धान् एवं नगरादिशब्दानां व्याख्या पूर्वसूत्रतो विज्ञेया, तेषां नगरादीनां पूर्वोक्तानां सर्वेषां महान् नगरायुत्सवान् 'चक्खुदंसणवडियाए चक्षुर्दर्शनप्रतिज्ञया इत्यादि न्याख्या पूर्ववत् ॥ सू० २०॥