SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ निशोथसूत्रे सूत्रम् — जे भिक्खू गिहिवत्थं परिहेइ परिहतं वा साइज्जइ ॥ सू० ११॥ छाया - -यो भिक्षुः गृहिवस्त्रं परिदधाति परिदधन्तं वा स्वदते || ११|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'गिवित्थं' गृहस्थवत्र गृहस्थेन परिवृतं वस्त्रम् 'परिहेड' परिदधाति श्रावकादिवत्रस्य परिधानं करोति कारयति वा तथा 'परिहतं वा साइज्जइ' परिदयन्तं वा स्वदते स प्रायश्चित - भागी भवति । पात्रग्रहणे ये पुरा कर्म पश्चात्कर्मादिदोषाः कथितास्ते दोषा इहापि ज्ञातव्याः ||०११ || २८८ सूत्रम् — जे भिक्खू गिहिनिसेज्जं बाहेइ वाहतं वा साइज्जइ ॥ १२ ॥ छाया -यो भिक्षुर्गृहिनिषद्यां वहति वदन्तं वा स्वदते ॥ १२ ॥ चूर्णिः - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा गिडिनिसेज्जं' गृहिनिषधाम्, तत्र गृहिणी गृहस्थस्य निषद्या - आसनं पर्यङ्कादि यत्र उपविश्यते ताहशीं निषद्याम् 'वाहेइ' वहति-निषीदति गृहस्थस्य निषद्योपरि समुपविशति । 'वातं वा साइज ' वहन्तं वा स्वदते, उपविशन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । अयं भावः- भिक्षाचर्यादिप्रसंगेन गृहिगृहं गतः श्रमणः गृहस्थस्य पर्यङ्कादौ समुपदिश्य वार्तालापं कुर्यात् धर्मकथादिकं वा श्रावयेत् तढा गृहस्थप्रायोग्यासने समुपविष्टस्य ब्रह्मचर्यभङ्गप्रसङ्गः भुक्तभोगानां स्मरणसंभवात् । तथा लोकानां साधुब्रह्मचर्ये शङ्कापि प्रादुर्भवेत् कथमयं श्रमणो भूत्वापि गृहस्थासने समुपविष्टः ? एवम् अनेकेषां चित्ते अनेकप्रकारिका शङ्का प्रादुर्भूता स्यात् तस्मात्कारणात् श्रमणः श्रमणी वा गृहस्थस्यासने कदापि नोपविशेत् न वा समुपविशन्तमनुमोदेत || सू० १२॥ सूत्रम् — जे भिक्खू गिहितेइच्छं करेड़ करेंतें वा साइज्जइ ॥ सू० १३ ॥ छाया -यो भिक्षुर्गृहिचिकित्सां करोति कुर्वन्तं वा स्वदते ॥ सू०१३ || चूर्णि: - 'जे भिक्खू' इत्यादि 'जे भिक्खू' य' कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिहितेइच्छं' गृहिचिकित्सां, तत्र गृही गृहस्थः, तस्य चिकित्सा रोगप्रतीकारलक्षणा ताम 'करेइ' करोति, यो भिक्षुर्गृहस्थस्य वमनविरेचनपानादिप्रकारैः रोगस्य ज्वरादेः विपूचिकादेर्वा प्रतीकारमोषधाचुपचारं करोति तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते स प्रायश्चितभागी भवति ॥ सू० १३॥ सूत्रम् — जे भिक्खू पुरेकम्मकडेण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहे पडिग्गार्हतं वा साइज्जइ ॥ सू० १४॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy