________________
निशीथसूत्रे वस्तुतस्तु निशि रानाविव यत्र अप्रकाशे गुप्तरूपेण श्रुतं स्थाप्यते पठ्यते स निशीथः । पृषोदरादित्वासिद्धम्, उपयुक्ताः सर्वा व्युत्पत्तयः पृषोदरादित्वात् सम्पद्यन्ते ७ । अथवा-अपात्रेभ्यो यद् न प्रकाश्यते अनेन इति स निशीथः ८ । अथवा निशेरते जीवा अस्मिन् मिथ्यात्वाऽविरत्यादिगाढान्धकारे इति निशीथः, 'नि-पूर्वकात्' शी स्वप्ने' इत्यस्मात् धातोः 'निशीथगोपीथावगथाः' (उणा० पा० २ सू० ९) इति थक् प्रत्यये निशीथशब्दसिद्धिः, तत् मिथ्यात्वादिजनितकर्ममलप्रक्षालकं सूत्रमपि निशीथपदेन मशकार्थी धूम इतिवद् उच्यते, आलोचनादिप्रायश्चित्तविधायके विधौ खल्वियमागमिकी संज्ञा विज्ञेया ९।
यथा-लौकिकानि विद्यामन्त्रयोगचूर्णादिप्रतिपादिकानि सूत्राणि अपरिपक्वबुद्धीनां न प्रकाश्यन्ते, तथैवेदमपि सूत्रम् अपरिपक्वबुद्धीनां पुरतो न प्रकाश्यते । के ते अपरिणतबुद्धयः ? इति तान् दर्शयति-अबहुश्रुताः, अकृतसूत्राः, रहस्यभेदकाः, सूत्रप्रत्यनीकाः, मिथ्यात्ववासितबुद्धयः, जिनवचनरहस्यानभिज्ञाः वैराग्यवासनावर्जिताः, दुर्वलचारित्राः अवसन्नाः पार्श्वस्थाः कुशीला: संसक्ताः यथान्छंदाः, इत्यादयोऽपरिणतबुद्धयः कथ्यन्ते ।
एतेभ्यः इदं सूत्रं न देयमिति, एतेषां सूत्रदाने प्रवचनस्य लघुता, घातः, उड्डाहः, तथा दुर्लभबोधित्वं च जायते । अत इदं निशीथामिधं सूत्रं योग्येभ्यो देयम् । तेषामबहुश्रुतादीनां प्रतिपक्षा बहुश्रुतादयो विज्ञेयास्तेभ्यो देयमिति भावः । कथमेवम् ? यतः 'गच्छतः स्खलनं चैव' इति न्यायात् संयममार्गे विचरतः कदाचित् प्रमादादतिचारादिसंभवः । तद्विशुद्धिः प्रायश्चित्तेन भवतीति प्रायश्चित्तं च वस्तुत्रय संभवति तथाहि-प्रतिसेवकः १ प्रतिसेवना २ प्रतिसेवितव्यं चेति ३ । तत्र प्रतिसेवकः प्रतिसेवनकर्ता, स द्विविधः, गीतार्थाऽगीतार्थभेदात् । प्रतिसेवनाशब्देनाऽत्र भावो गृह्यते, स द्विविधः कुशलाऽकुशलभेदात् । प्रतिसेवितव्य सेवनीय वस्तु, तदपि द्विविधं संयमाsसंयमभेदात् । अत्र मुनेर्या कुशलप्रतिसेवना, तस्याः नात्राधिकारः तस्याः कुशलत्वेन प्रायश्चित्ताविषयत्वात्, प्रस्तुतसूत्रस्य च दोपशुद्धयर्थं प्रायश्चित्तविधायकत्वात् , अतोऽत्राऽकुशलप्रतिसेवनाया अधिकारः । तद्विशुद्धयर्थमिदं सूत्रं प्रारभ्यते, तस्येदमादिमं सूत्रम्-'जे भिक्खू हत्थकम्म' इत्यादि ।
सूत्रम्-जे भिक्खू हत्थकम्मं करेइ करतं वा साइज्जइ । सू० १॥ छाया-यो भिक्षुः हस्तकर्म करोति कुर्वन्तं वा स्वदते ॥ सू० १ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे' यः कश्चित् 'भिक्ख' भिक्षुः निरवधभिक्षणशीलः । यद्वा भिनत्ति ज्ञानावरणीयाधष्टविधं कर्मेति भिक्षुः साधुः, अत्र भिक्षुशब्देन साध्वी चापि गृह्यते । तैन-साधुर्वा साध्वी वेत्यर्थः 'हत्थकम्म' हस्तकर्म हस्तः शरीरैकदेशः तेन कर्म करणं व्यापारः, तत् हस्तकर्म, उपस्थविपये हस्तादिनाऽतिक्रमाधाचरणं करोति स्वयं, कारयति परेण, कुर्वन्तं चान्यं