________________
धूर्णिभाष्यावचूरिः उ०११ सू० ८१-८६
छन्दप्रशंसाधन प्रवाजनादिनिषेधः २७५
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णिवेयण पिंडं' निवेदनपिण्डम् देवयक्षव्यन्तरनिवेदनाय प्रस्तुतं भक्तादिकं तत् निवेदनपिण्डम् ‘भुंजइ' भुङ्क्ते देवताद्यर्थं यत् पिण्डं स्थापित तादृशं निवेदन पिण्डं यो भिक्षुरुपभुङ्क्ते तथा 'झुंजतं वा साइज्जइ' भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ॥ स्० ८१ ॥
सूत्रम् — जे भिक्खू अहाछेद पसंसइ पसंसंतं वा साइज्जइ ॥ सू०८२ ॥
छाया -यो भिक्षुर्यथाछन्दं प्रशंसति प्रशंसन्तं वा स्वदते ॥सू० ८२॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्र भिक्षुः श्रमणः श्रमणी वा 'अहाछंद' यथाछन्दं, तत्र छन्दोऽभिप्रायः, तेन यथा येन प्रकारेण स्वस्याभिप्रायस्तदनुसारेण प्ररूपयति करोति स यथाछन्दः प्रोच्यते, तं 'पसंसइ' प्रशंसते तस्य प्रशंसां करोति कारयति 'पसंसंतं चा' प्रशंसन्तमन्यं वा 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ॥
अत्राह भाष्यकारः
भाष्यम् – जहछंदत्तं दुविहं, परूवणे तह भवेज्ज चरणे य । पडिलेहाइसु पढमं वीर्यं पुण साहुकिरियासु ॥१॥ छाया - यथाछन्दत्वं द्विविधं प्ररूपणे तथा भवेत् चरणे च । प्रतिलेखादिषु प्रथमं द्वितीयं पुनः साधुक्रियासु ॥ १ ॥
अवचूरिः – साधोर्यथाछन्दत्वं द्विविधं भवति, तत्र एकं प्ररूपणे प्ररूपणाविषये, द्वितीयं चरणे चारित्रविषये च । तत्र प्ररूपणे यथाछन्दत्वं यथा - वस्त्रपात्रादीनां नित्यं प्रतिलेखना न कर्त्तव्या किं तत्र निरन्तरं जीवाः परिवसन्ति येन नित्यमेव प्रतिलेखना क्रियते, द्वित्रादिदिवसव्यवधानेन करणे न कोऽपि दोषः । रजोहरणदशिकाः (रजोहरण फलिकाः) ऊर्णादिकर्कशस्पर्शसूत्रैः किमर्थ क्रियन्ते, क्षौमिकादिमृदुस्पर्शसूत्रैः कि न क्रियन्ते ? कोऽत्र दोषः १, इत्यादि प्ररूपणम् १ चरणे यथाछन्दत्वं यथा-अस्मदाद्यर्थ सम्पादितमशनादि ग्रहीतव्यं येन यथारुचि भोजनं लभ्यते तेन संयमाराधनं सुकरं भवति, केऽत्राधाकर्मादिदोषाः समापतन्ति, एवं साधुनिमित्त संपादिताऽशनादिग्रहणरूपं यथाछन्दत्वम्, यथा- शय्यातरपिण्डादानम्, गृहिपात्रग्रहणं, निर्ग्रन्थ्या सह वसनम्, इत्यादिसाधुक्रियासु चरणविषयकं यथाछन्दत्वं भवति । इत्याधाचरणवन्तं 'यथाछन्दं साधुं न प्रशंसेत्, न वा प्रशंसां कुर्वन्तमन्यमनुमोदेत । यस्तस्य प्रशंसां करोति तथा प्रशंसन्तमनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८२॥
n
सूत्रम् — जे भिक्खू आहछंदं वंदइ बंदतं वा साइज्जइ || सू० ८३॥
छाया -यो भिक्षुर्यथाछन्दं घन्दते वन्दमानं वा स्वदते ॥० ८३॥