________________
चूर्णिभाष्यावरिः उ० ११ सू० ७८-८० पर्युषिताशनाधाहारनिषेधः २७३ __सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा परिवासेइ परिखासेंतं वा साइज्जइ ॥ सू० ७८॥
छाया-यो भिक्षुः अशनं पा पानं वा खाध्य वा स्वाघ वा परिवासयति परिवासयन्तं वा स्वदते ॥सू० ७८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा४' अशनं वा ४ अशनादिचतुर्विधाहारम् 'परिवासेई' परिवासयति संस्थापयति सुन्दरमिदमशनादि मागामिदिने भोक्ष्यामीति रात्रौ स्थापयित्वा पर्युषितं करोति 'परिवासेंतं वा साइज्जइ' परिवासयन्तं वा स्वदते ।। सू० ७८||
सूत्रम्-जे भिक्खू पखिासियस्स असणस्स वा पाणस्स वा खाइमस्स वा साइमस्स वा तयप्पमाणं वा भूइप्पमाणं वा बिंदुप्पमाणं वा आहार आहारेइ आहारतें वा साइज्जइ ॥ सू०७९॥
छाया-यो भिक्षुः परिवासितस्य अशनस्य वा पानस्य वा खाद्यस्य वा स्वायस्य वा त्वचाप्रमाणं वा भूतिप्रमाणं वा बिन्दुप्रमाणं वा आहारमाहरति माहरन्तं वा स्वदते ॥ सू० ७९॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परिवासियस्स' परिवासितस्य पर्युषितस्य दिवसे भुक्तावशेषरय रात्रौ स्थापितस्य 'असणरस वा' अशनस्य वा 'पाणस्स वा' पानस्य वा 'खाइमस्स वा' खाद्यस्य वा 'साइमस्स वा' स्वाधस्य वा 'तयप्पमाणं वा' त्वचाप्रमाणं वा-त्वचा तनुतरा भवतीति त्वचाप्रमाणं अल्पप्रमाणमित्यर्थः 'भूइप्पमाणं वा' भूतिप्रमाण वा भूतिः-रक्षा-भस्म तत्प्रमाणं भस्मरजःकणप्रमाणं स्वल्पमात्र मपीत्यर्थः 'विदुप्पमाणं वा' बिन्दुप्रमाणं वा जलादेविन्दुप्रमाणं वा 'आहारं आहारेइ' आहारमाहरति रात्रौ स्थापिताशनादेः स्वल्पमपि भागमाहरति भुङ्क्ते तथा 'आहारतं वा साइज्जई' आहरन्तम्-अल्पमात्रस्याप्यशनादेर्भागस्योपभोगं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७९॥
सूत्रम्-जे भिक्खू मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा संमेलं वा हिंगोलं वा अन्नयरंवा तहप्पगारं विरूंवरुवं वा हीरमाणं पेहाए ताए आसाए ताए पिवासाए तं रयणि अण्णत्थ उवाइणावेइ उवाइणावेतं वा साइज्जइ ॥ सू० ८०॥