________________
૨૦૦
छाया - धर्मश्च द्विविध उक्तः, श्रुतचारित्रलक्षणः |
निशीथसूत्रे
ANNININN
reersaif द्विधा भवति, तं वदेत् दोषभाय् भवेत् ॥१॥
अवचूरिः - धर्मः नरकपातादिदुर्गतिसकाशात् धारकः, म द्विविधो द्विप्रकारको भवति थुत्र चारित्रमेदात्, तत्र एकः श्रुतधर्म.. अपरः खलु चारित्रधर्मश्च तत्र श्रुतधर्मः आगमलक्षणः, स पुनर्द्विविधः सूत्रे अर्थे च। चारित्रधर्मस्तु श्रमणधर्मः, अयं च चाग्निवर्मोऽपि द्विविधो भवति, अगारधर्मः देगतश्चारित्रभावात्, अनगारधर्मश्च, पुनथायं प्रत्येकं द्विविध. - मूलगुणलक्षणः उत्तरगुणलक्षणश्च, तस्यैवंप्रकारस्य धर्मस्यावर्णवादी द्विधा द्विप्रकारको भवति देशतोऽवर्णवादः सर्वतोऽवर्णवादश्च । तं तादृशमवर्णवादं यदि श्रमणः श्रमणी वा वदेत वदन्तं वा स्वदते स दोषभाग् भवेत्, दोपाथआज्ञा भङ्गानवस्थामिथ्यात्वादिकास्तेषां स भाजनं भवतीति भावः । यस्मात् कारणात् श्रुतचारित्रलक्षणधर्मस्यावर्णवाद करणे पूर्वोक्ता दोषा भवन्ति तस्मात् कारणात श्रमणः श्रमणी वा धर्मस्यावर्णं न स्वयं वदेत् न वा वादयेत् न वा धर्मस्यावर्ण वदन्त श्रमणान्तरं कथमप्यनुमोदयेत् ॥ सू० ९ ॥
सूत्रम् — जे भिक्खू अधम्मस्स वण्णं वयइ वयंतं वा साइज्जइ ॥ १० ॥
छाया - यो भिक्षुरधर्मस्य वर्ण वदति ददन्तं वा स्वदते ॥० १०॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अधम्णस्स' अघस्य हिंसादिलक्षणस्य 'वर्ण' वर्ण- प्रशंसनं यशः कीर्ति वा 'चय' वदतिकथयति लोकानां पुरतो हिंसादिलक्षणधर्मस्य प्रशंसां करोति तथा 'वयं वा साइज्जइ' वदन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, अधर्मस्य प्रशंसने तदनुमोदनजन्यक्रियाढोपसद्भावात् ॥ सू० १० ॥
सूत्रम् -- जे भिक्खु अण्णउत्थियस्स वा गारत्थियस्स वा पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जेतं वा पमज्जैतं वा साइज्जइ ॥ सू० ११|| छाया -यो भिक्षुरन्ययूथिकस्य वा गृहस्थस्य वा पादौ आमार्जयेत् वा प्रमार्जयेत् वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ॥सू० ११||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स' अन्ययूथिकस्य अन्यतीर्थिकस्य तापसादे: 'गारत्थियस्स वा' गृहस्थस्य श्रावकादेर्वा 'पाए' पादौ चरणौ 'आमज्जेज्ज वा' आमार्जयेद् वा एकवारं रजोहरणेन वस्त्रेण वा प्रमार्जनं कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेत् अनेकवारम् 'आमज्जेत वा पमज्जेत वा