________________
पूर्णिमायावचूरिः उ० १० सू० १०
अन्यशैक्षवुद्धिविपरिणमननिषेधः २३१ मक्षं तादृशजीवद्वयवधं दृष्ट्वा आत्मघातं कृतवान् । तलवरपुत्रोऽपि वडवादिवर्धे दृष्ट्वा तथैवात्मघात कृतवान् , पुत्रशोकात् तलनरपत्नी अपि मृता, तदनन्तर कलत्रपुत्रशोकात् तलवरोऽपि स्वशरीरमत्यजत् । एवं निमित्तकथने महान् अनर्थो जायते, अतः साधुः कदापि निमित्तं न प्रकाशयेदिति भावः ॥सू० ९॥
सूत्रम्-जे भिक्खू सेहं विपरिणामेइ सेह विपरिणामेंतं वा साइज्जइ ॥ सू०१०॥ छाया-यो भिक्षुः शैक्षक विपरिणमयति शैक्षक विपरिणमयन्त वा स्वदते ॥ सू० १०॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सेहं विप्परिणामेई' शैक्षं शिष्यं विपरिणमयति अन्यसाधुशिष्यस्य बुद्धि व्यामोहयति तस्य गुरोनिन्दाकरणेन स्वगुणोत्कीर्तनादिना च कश्चित् शैक्षकं वदेत्-ममाचार्य एव श्रेष्ठो न तु तव, इत्यादि कथयित्वाऽन्यस्य शैक्षक विविधैः प्रकारेस्तस्यात्मानं विपरिणमयति पूर्वगुरुविषये तं विगतपरिणाम करोति, अथवा वस्रपात्राहारसूत्रार्थादीनां प्रलोभनं दत्त्वा स्वकीय शिष्यं कर्तुं तन्मति व्यामोहयति तथा 'विपरिणामेंतं वा साइज्जई' विपरिणमयन्तं वा स्वदते अन्यदीयशिष्यस्य बुद्धिव्यामोह कुर्वन्तं श्रमणं योऽनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम् - दुविहो विप्परिणामो, पन्धज्जिय अप्पवज्जिए तह य ।
एक्केको पुण दुविहो, पुरिसित्थीभेयओ होई ॥ छाया-द्विविधो विपरिणामो, प्रव्रजितेऽप्रनजिते तथा च ।
एकैकः पुनद्विविधा, पुरुषस्त्रीमेदतो भवति ॥ अवचरिः-विपरिणामः द्विविधः द्विप्रकारको भवति, एको विपरिणामः प्रबजिते शैक्षे, तथा च द्वितीयः अप्रव्रजिते शैक्षे । पुनरपि एकैको विपरिणामः द्विविधः पुरुषस्त्रीभेदतो द्विविधो भवति ज्ञातव्यः । द्विविधे परिणामे प्रथमं प्रवजितशिष्यविषयं विपरिणामं दर्शयति-यथा कश्चित् साधरन्यशिष्य स्थण्डिलादिभूमिमार्गे मिलितं कथयति-तव गुरुन श्रेष्ठः, त्वां समीचीनतया न रक्षितुमर्हति, न पाठयति, न वस्त्रपात्राहारादिना त्वां तोषयति, अतस्त्वं मम समीपे मागच्छ, त्वामहं सम्यकया पठनपाठनादिना तोषयिष्यामि, इत्यादि कथनेन तन्मतिं व्यामोह्य स्वशिष्यं करोतीति प्रजितशिष्यविषयको विपरिणामः । अप्रव्रजितविषयको विपरिणामश्चेत्थम्-कश्चिदीक्षार्थी ममक स्थाचार्यस्य समीपे दीक्षा ग्रहोण्यामीति संप्रधाऱ्या गृहात् प्रस्थितः, मार्गे च कश्चित् द्वितीयः साधु