________________
पूर्णिभाष्यावद्भिः उ० १० सू० ७-९ अतोतवर्तमानानागतनिमित्तभाषणनिषेधः २२९ पृच्छति च तत्रत्यलोकान्-भोः ! समृद्धजनसंकुलोऽयं प्रामः पूर्वमासीत् सम्प्रति कथमेतादृशः समृद्धजनशून्यो जातः ? लोकाः कथितवन्तः-भो आचार्याः, लघुग्रामेऽत्र भवत्सेवानिमित्तमेवात्रागत्य ते समृद्धजना निवसिताः आसन्, भवद्विहारानन्तरं गतवन्तस्ते स्वस्वस्थाने । इति श्रुत्वा-आचार्यश्चिन्तयति-अहो ? अस्माभिरत्राधाकर्मादिदोषदुष्ट आहारादिरवश्यं परिभुक्तस्ततः प्रायश्चित्तस्थान प्राप्ता वयमिति तद्दोषिनिवारणार्थ प्रायश्चित्तं करणीयं स्यादिति शिष्यसहितः स शास्त्रोक्तं प्रायश्चित्तं कृतवान् । तस्मात् कारणात् दर्शनार्थमागतानामशनादि साधुभिः कदापि कथमपि न ग्रहीतव्यम्. न वाऽन्यं ग्राहयेत् , गृह्णन्तं वाऽन्यं श्रमणं नानुमोदयेदिति । सू०६॥
सूत्रम्-जे भिक्खू तीतं निमित्तं कहेइ कहेंतं वा साइज्जइ ।। सू०७॥
छाया-यो भिक्षुरतीतं निमित्तं कथयति कथयन्तं वा स्वदते ॥ सू०७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'तीतं निमित्त' अतीतम् भूतकालिकम् भूतकाले जातं सुखदुःखलाभालाभजीवनमरणभेदात् षड्विधं निमित्तम् 'कहेई' कथयति लोकानां पुरतः प्रकाशयति, अतीतकालिकं ज्योतिःशास्रोक्तग्रहादिजन्यं सामुद्रिकशास्त्रोक्तरेखादिजन्यं च निमित्तं स्वस्य सत्यनिमित्तज्ञातृत्वप्रख्यापनार्थ कथयति-यथा कोऽप्यतीतकाले केनापि स्वस्य शारीरिक-मानसिक-सुखदुःखादिविषयो लाभालामजीवनमरणादिविषयो वा प्रश्नः कृतोऽभूत् तद्विषये तं वदेत्-मया तुभ्यं यद् यत् कथितं तत्तत्सर्वं सत्यतया त्वयाऽनुभूतम् , इत्यादिरूपमतीतकालविषयकं निमित्तं प्रकाशयति । तथा 'कहेंतं वा साइज्जई' कथयन्तं वाऽन्य श्रमणं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ७॥
सूत्रम्--जे भिक्खू पडुप्पण्णं निमित्तं वागरेइ वागरेंतं वा साइज्जइ॥
छाया–यो भिक्षुः प्रत्युत्पन्नं निमिचं व्याकरोति व्याकुर्वन्तं वा स्वदते ॥सू०८॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः 'पडुप्पन्न' प्रत्युत्पन्नम् वर्तमानकालिकम् 'निमित्त निमित्तं ज्योति शास्त्रादिजन्यम् । यथा कोऽपि पृच्छेत्-विदेशस्थितोऽमुको मम स्वजनः संप्रति सुखी दुःखी वाऽस्ति ? लाभवान् अलाभवान् जीवितो मृतो वा ?, तथा' अहं संप्रति सुखी दुःखी वाऽस्मि ?, तथा मया अमुकस्य पार्श्वे मज्जनः प्रेषितः सोऽनुको जनस्तस्य मिलितो न मिलितो वा ? इत्यादिरूपं निमित्तं 'वागरेई' व्याकरोति प्रकाशयति कथयतीति यावत् 'वागरेंतं वा साइज्जइ' व्याकुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८ ॥
सूत्रम्-जे भिक्खू अणागयं निमित्तं वागरेइ वागरेतं वा साइज्जइ ॥ सू०९ ॥