________________
M
बुर्णिशाध्यावरिः उ०१० २०५-६
आधाकर्माहारपरिभोगनिषेधः २२७ छाया-यो भिक्षुरनन्तकायसंयुक्तमाहारम् आहरति आहरन्तं वा स्वदते ॥ सू० ५॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अणंतकायसंजुत्तं' अनन्तकायसंयुक्तम् , तत्र अनन्तकायः पनकशैवालादिः तेन संयुक्तं संमिलितम् 'आहार' आहारम् अशनादिचतुर्विधाहारम् 'आहारेइ' आहरति-पनकशैवालादिमिश्रितमाहारमुपभुडक्ते 'आहार वा साइज्जई' आहरन्तं वा स्वदते । यो हि श्रमणः श्रमणी वा अनन्तकायसंयुक्तमाहारं भुङ्क्ते तमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५॥
सूत्रम्--जे भिक्खू आहाकम्मं भुंजइ भुजंत वा साइज्जइ ॥ सू०६॥ छाया--यो भिक्षुराधाकर्म भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० ६॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'आहाकम्म' आधाकर्म आधानम् आधा चेतसि साधून आधाय मनसि निधाय तन्निमित्तं षड्जीवनिकायोपमर्दनादिना कर्म-भक्तादिपाकक्रिया क्रियते तद्योगाद् भक्तावपि आधाकर्म, तादृशमाहारं 'भुजइ' भुक्ते माहरति आधाकाहारजातस्य भोजनं करोति कारयति वा तथा 'भुंजत वा साइज्जई' भुञ्जानं वा स्वदते । यो हि श्रमण आधाकाहारमुपभुक्ते तमनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम् -संजयं च मणे किच्चा, निप्फाए ओयणाइयं ।
छक्कायजीवमद्देणं, आहाकम्मं मुणेहि तं ॥१॥ तं च गिण्हइ जो भिक्खू , असणाइ चउन्विहं ।
दायारं णियमप्पाणं, दोसजुत्तं करेइ सो ।।२।। छाया-संयतं च मनसि कृत्वा निष्पादयेत् ओदनादिकम् ।
षट्रकायजीवमर्दैन आधाकर्म जानीहि तत् ॥१॥ तच्च गृक्षाति यो भिक्षुः अशनादि चतुर्विधम् ।
दातारं निजमात्मानं दोषयुक्तं करोति सः ॥२॥ अवचरि:-'संजयं' इत्यादि । 'संजयं' संयतं साधु च मनसि कृत्वा कमपि साधुमुद्दिश्य यत् मोदनादिकं निष्पादयेत्, तद् ओदनादिकं षट्कायजीवमर्दैन षटकायजीवविराधनया आधाकर्म जानीहि ॥१॥
तच्च तादृशमशनादि चतुर्विधमाहारं यः कोऽपि भिक्षुर्गृह्णाति स दातारम् आधाकर्माहारदायक, तथा निजमात्मानं च दोषयुक्तं करोति । तथाहि-कस्यापि श्रावकादेर्गुहे कमपि साधुमुद्दिश्य